________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विविधाशितपीतीयः
११३२
चरक-संहिता। विविधाशितपीतीयः व्यायामादुष्मणस्तैदण्याद्धितस्यानवचारणात् । कोष्ठाच्छाखां मला यान्ति द्रु तत्वान्मारुतस्य च॥ तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः। नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ॥ वृद्धा विस्यन्दनात् पाकात् स्रोतोमुखरिशोधनात् ।
शाखां मुक्ता मलाः कोष्ठं यान्ति वायोश्च निग्रहात्॥१०॥ राणां चिकित्सासंग्रहो नवेगान्धारणीये कृतः। अन्यत्र कचित् कचिच्च सिद्धिरुक्ता॥९॥
गङ्गाधरः-स्थानात् स्थानान्तरगतिकारणान्याह- व्यायामादित्यादि । मला वातादयः पुनः कोष्ठस्था व्यायामादितो मारुतस्य द्रुतत्वाच्च कोष्ठात् शाखां रक्तादिधातून यान्ति। तत्रस्थाः शाखास्थाः पुनः समीरिताश्चेत तदा न कदाचिद विलम्बन्ते पुनः स्थानान्तरं यान्ति। नेत्यादि । अदेशे अकाले वा न मलाः कुप्यन्ति भूयो हेतुप्रतीक्षिणो हेतुश्चान्यं लब्ध्वा देशे काले च भूयः कुप्यन्ति । शाखास्थास्तु मलाः पुन या विष्यन्दनाद्वा पाकाद्वा स्रोतोमुखविशोधनादनावरणात् शाखां मुक्त्वा कोष्ठं यान्ति वायोश्च निग्रहात् प्रतिकारात् । स्वस्थानगमनं स्वभावात् ॥१०॥
चक्रपाणिः-सम्प्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति, तदाह-व्यायामेत्यादि। व्यायामक्षोभात् कोष्ठं परित्यज्य शाखा मला यान्ति, उष्मणो वस्तीक्ष्णत्वात् विलायिता दोषाः शाखां यान्तीति। हितस्यानवचारणयातिसेवयातिमात्रवृद्धो दोषो जलापूरवद् वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम् । द्रुतत्वान्मारुतस्येति चलत्वाद् वायोर्वायुनाक्षिप्तो यातीत्यर्थः, वारवन्तरेण च वायोराक्षेपणमुपपन्नमेवेति, अन्यथा, "मला' इति बहुवचनमसाधु ; अथ शाखां गताः किं कुर्वन्तीत्याह-तत्रस्थाश्चेत्यादि । विलम्बन्ते कदाचिदिति कदाचिद् व्याधिकरणे विलम्बं कुर्वन्ति ; कुतो विलम्बन्त इत्याह-न समीरिताः, ये दोषा अल्पत्वेनाबलवन्तः, ते हेत्वन्तरेण समीरिताः सन्त: कुप्यन्ति ; तथा च तत्र नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना ; तत्रैव हेतुमाहभूय इत्यादि। यस्माद भूयो हेतुप्रतीक्षिणस्तेऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते, एतेन च भूयोहेतुप्रतीक्षिणो भवन्ति, बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते, अत एवोक्तम् 'कदाचिद्' इति।
सम्प्रति शाखाभ्यः कोष्ठागमनहेतु दोषाणामाह-वृद्धवत्यादि। विष्यन्दनादिति विलयनात्, विलीनश्च द्रवत्वादेव कोष्टं निम्नं याति ; पाकादिति पक्को दोषोऽवृद्धरवेनैव
For Private and Personal Use Only