________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः सूत्रस्थानम्।
११३१ रसजानां विकाराणां सर्व लङ्घनमौषधम् । विधिशोणितिकेऽध्याये रक्तजानां भिषगजितम् ॥ मांसजानान्तु संशुद्धिः शस्त्रनाराग्निकर्म च । अष्टौनिन्दितसंख्याते मेदोजानां चिकित्सितम् ॥ अस्थ्याश्रयाणां व्याधीनां पञ्च कार्माणि भेषजम् । वस्तयः क्षीरसीषि तिक्तकोपहितानि च ॥ मजशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् । अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ॥ श.तिििन्द्रयजानान्तु त्रिमीये प्रवक्ष्यते। स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके ॥ नवेगान्धारणेऽध्याये चिकित्सासंग्रहः कृतः ।
मलजानां विकागणां सिद्धिचोक्ता क्वचित् क्वचित् ॥ ६ ॥ हितान्येवाशिनादीनि सदा मतिमान् सेवेत, तथा तेन प्रकारेण तज्जा आमया न स्युरिति ॥८॥
गङ्गाधरः--एषां रसादिजानां व्याधीनां चिकित्सामाह-रसजानामित्यादि। सर्व लङ्घनं दविधमुक्तं यत् तदौषधम्। रक्तजानां व्याधीनां भिषग्जितं विधिशोणितिकाध्याये प्रोक्तम् । मांसजानां व्याधीनां भिषग्जितं संशुद्धिः वमनादिः शस्त्रादिकम्मे च। मेदोजानां व्याधीनां चिकित्सितमष्टोनिन्दि. तीये स्थौल्यचिकित्सितमुक्तम् । अस्थाश्रयाणां व्याधीनां भेषजं पञ्चकर्माणि वस्तयः तिक्तद्रव्योपहितानि क्षीराणि च सी पि चेति। मज्जशुक्रसमुत्थानां व्याधीनामोपधं स्वादु च तिक्तश्चान्नं व्यवायव्यायामौ शुद्धिवेमनादिश्च मात्रया काले च। इन्द्रियजानां व्याधीनां शान्तिः त्रिमी ये प्रवक्ष्यते । स्नाय्वादिजानां व्याधीनां प्रशमो वातरोगाध्याये वक्ष्यते। मलजानां विका.
हितवस्तेविशेषेण हितत्वोपदर्शनार्थम् । शुद्धिरिति वमनादिना सिद्धिः प्रोक्ता। क्वचिदिति भतीसारग्रहण्यादौ ॥ १९॥ .
For Private and Personal Use Only