________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.२८श अध्यायः
सूत्रस्थानम्।
११३५ आहारस्य विधावष्टौ विशेषा हेतुसंज्ञकाः। शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ॥ १२ ॥ परिहााण्य पथ्यानि सदा परिहरन् नरः । भवत्यनृणतां प्रान्तः साधूनामिह पण्डितः ॥ यत् तु रोगसमुत्थानमशक्यमिह केनचित् । परिहर्तन तत् प्रान्य शोचियं मनामिभिः ॥ १३ ॥
कुनोऽश्नीयात्। देहो ह्याहारसम्भवः। यत् आहारसम्भवो देहो वत्तेते। 'कथं तहि परीक्ष्यत इति ? अत उच्यते--आहारस्येत्यादि। अष्टौ विशेषाः प्रकृतिकरणसंयोगकालदेशराश्युपयोगसंस्थोपयोक्तारः। तानष्टावाहारविधी परीक्ष्य पथ्यं प्रयोजयेत्। परिहार्याणि चापथ्यानि सदा परिहरन नरोऽरोगी भवति। यथा पण्डितः साधूनामुत्तमर्णानामनृणतां प्राप्तो यादृशा भवति ।
ननु रोगोत्पत्तिहेतु सम्वन्तु न परिहत्त् शक्यते, तत् कथमरोगी स्यादिति ? अत उच्यते-यत्त्वित्यादि । यत् तु रोगाणां कारणं केनापि जनन परिहतुन शक्यं, तत् प्राप्य मनीषिभिः पण्डितैने शोचितव्यमिति ॥ १२॥१३॥
संज्ञकमारोग्यम्" इत्यत्रोक्तम् ; विज्ञातेति परोक्षकः। न रागादित्यादौ अहितावेन जानन्नपि रागादेव कश्चिदुष्टः प्रवर्तते, अज्ञानाच्चाहिताज्ञानादेव कश्चिद्धिताध्यवसायेन प्रवर्तते, एतदद्वयमपि निपिध्यते। कथमाहारः पर क्ष्य इत्याह-आहारस्येत्यादि। आहारस्य विधौ विधानेऽष्टी विशेषा, प्रकृतिकरणसंयोगादयो रसविमाने वक्तव्या हेतुसंज्ञका', व हेतुसंज्ञका इत्याह-शुभे. त्यादि। शुभाशुभसमुत्पत्ती ते च प्रकृत्यादयः शुभाशुभकरा इति ज्ञ यम् ॥२॥ __ चक्रपाणिः-ननु पथ्यसेवायो किग्रमाणायामपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति, तत् किमनेन पथ्यसेवनेनेत्याह - परिहार्याणीत्यादि। अनृणतामिव प्राप्तोऽनृणतां प्राप्तः, एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति , यस्तु दैवागतस्तस्य म्याधिस्तत्र साधयो नैवं पथ्यसेविनं गर्हयन्ति, एतदेवाह ----यक्ति त्यादि। अशक्यं परिहत्तुं मिति बलवत्कर्मजन्यत्वादित्यर्थः, न शांचितव्यमिति पुरुषकारस्य दैवजन्यत्वे अवश्यम्भाविव्याधी अकिञ्चित्करत्यादित्यर्थः ॥ १३ ॥
For Private and Personal Use Only