________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२०
चरक-संहिता। [विविधाशितपातीयः अनुवर्तयन्ते यथावयः शरीरम् । एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसान्यमनुवत्तयतः ॥२॥ मलाभ्यामाहारजाभ्यां पुष्यन्तो यथावयः शरीरं स्वं मानं प्रकृतिमानमनुवर्तयन्ते । वयोऽनुरूपं यथावयस्तु शरीरं जन्मावधिप्रत्यग्रस्वभावधातुसमुदायात्मकम् । धातूनां हि प्रत्यग्रता खल्वग्रषग्रनिति प्रत्यग्र वत्तते प्रत्यग्रभावस्तु स्वभावात् त्रिंशद्वर्षं यावद्वत्तते। तत्र पोडशवर्ष यावदसम्पूर्णभावेन प्रत्यग्रभावः, षोडशे तु सम्पूर्ण सव्वधातुशरीरं भवति। उक्तश्च सुश्रुते। यथा हि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्त न वास्तीति । अथवास्ति सतां भावानाम् अभिव्यक्तिरिति कृता केवलं सोक्षम्यान्नाभिव्यज्यते । स एव गन्धो वित. पत्रकेशरे कुमुमे कालान्तरेणाभिव्यक्तिं गच्छति, एवं बालानामपि वयःपरिणामाच्छुक्रमादुर्भावो भवति। रोमराज्यादयोऽथातवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिद्धिर्भवति। स एवानरसो वृद्धानां जरापरिपकशरीरखान्न प्रीणनो भवति। त एते शरीरधारणाद्धातव उच्यन्ते इति । बालानामिति वचनेन पोडशवर्षपय्येन्तं ख्यापितमिति। ततस्तु त्रिंशद्वपं यावत् सम्पूर्णसर्वशतूनां प्रत्यग्रभावस्तेनाहाररसात् क्रमेण शरीरं वद्धते धातुद्धया। त्रिंशद्वादृद्ध धातूनां स्थैय्यस्वभावः पष्टिवषं यावत् । तेन समभावः शरीरस्य न क्षयो न वृद्धिश्च स्यात् । षष्टिवादृर्द्ध सप्ततिवपं यावत् हासारम्भस्वभावस्तेन ह्रासारम्भमात्र शरीरस्य भवति । सप्ततिवर्षादूद्ध क्षयः क्रमेण भवति वाद्धक्यं तदोच्यते। इति यथावयः शरीरं बोध्यमिति । एवमनेन प्रकारेण रसश्च मलश्चेति द्धो स्वप्रमाणावस्थितौ तद्रसमलयोराश्रयस्य समधातोः शरीरस्य धातुसाम्यमनुवत्तयत इति । रसतो रसाउत्तरोत्तरपोषणमुक्तं सुश्रुते शोणितवणनीये। तद यथा-तत्र पाञ्चभोतिकस्य चतुविधस्य परसस्य द्विविधवीय्यस्याष्टविधवीय्यस्य वानेकगुणस्योपयुक्तस्याहारस्य सम्यकपरिणतस्य यस्तेजोभूतः सारः परममूक्ष्मः स रस इत्युच्यते । तस्य च हृदयं स्थानं, स हृदयाच्चतुर्विशतिं
उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानमुपसंहरति-ते. सर्व इत्यादि ।-मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणात् धातवो भवन्तीत्युक्त-"धातवो मलाख्याः" इति ; यथावयः शरीरमिति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां, तादृशं पुष्यन्तः ; तथा यस्मिन् शरीरे प्रकृत्या दीर्घ ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातृनां, तादृशं पुष्यन्त
For Private and Personal Use Only