________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः सूत्रस्थानम्।
१११६ सन्धिबन्धनपिच्छादयश्चावयवाः। ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानम् स्तेजोमयी वागिति। एवं रसादेव च शरीरस्य सन्धिबन्धनपिच्छादयवावयवाः पुष्यन्ति। ते सव्वे एव मलाख्याः प्रसादाख्याश्च धातवः रसमार्गचारित्वात्, एवं मेद प्रभृतिपोषणेऽपि ज्ञेयम् ; तेन, “रसाद रक्त ततो मांसम्” इत्यादेरयम् अर्थः,-यत्-रसपुष्टिकालादुत्तरकालं रक्त जायते, तथा रक्तकालादुत्तरकालं मांसं प्रजायत इत्यादि । यच्च “रक्त विबदमार्गत्वात् मांसादीन् न प्रपद्यते” इति राजयक्ष्मणि वक्ष्यति तत् हृदयचारिशोणिताभिप्रायेण, न तु पोषकशोणिताभिप्रायेण । किञ्च, परिणामपक्षे, वृष्यप्रयोगस्य रक्तादिरूपापत्तिक्रमेणातिचिरेण शुकं भवतीति ; क्षीतादयश्च सद्य एवं वृष्या दृश्यन्ते ; खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावात् शीघ्रमेव शुक्रण सम्बद्रः सन् तत्पुष्टिं करोतीति युक्तम् , तथा रस. दुष्ठौ सत्यां परिणामपक्षे तजन्मनां शोणितादीनां सापामेव दुष्टिः स्यात् दुष्टकारणजातत्वात् ; खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुः, स एब दुष्पति न सर्वे, तदितरेपामदुष्टकारणत्वात् ; तथापि मेदोवृद्धौ सत्यां मूरिकारणत्वेनास्थ्नापि भूयसा भवितव्यम्, दृश्यते च भूरिमेदस इतरधातुपरिक्षयः, वचनञ्च -- मेदस्विनो मेद एवोपचीयते, न तथेतरे धातवः' इति, एवमादिपरिणामवादे दूषगम् ; एप पक्षेषु सवीत्मपरिणामवादो विरुद्ध एवं येन, सर्वात्मपरिणामे त्रिवतुरोपवासात् शरीरस्य मरणं स्यात्, मासोपवासे च केलं शुकमयं स्यात् ; केदारीकुल्यान्यायस्तु तुलएबल एव खलेकपोतन्यायेन, यतः, यदुक्त वृष्यप्रभाव प्रति, तत् केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनधिगम्य शुक्रजनयिष्यति वृष्य, यथा खलेकपोत. पक्षेऽपि 'प्रभावाद्' इति ; यत् तु रसदुष्टौ शोणितदूषणं, तन्न भवति, धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वादिति समानं पूर्वेण ; अत्रापि हि पक्षे न सो रसो धातुरूपशोणिततामापद्यते, किं तर्हि, कश्चिदेव शोणितसमानभागः, शेषस्तु शोणितस्थानगतत्वेन किञ्चिच्छोणितसमानवर्णादित्वाच्च शोणितमुच्यते, अनेन न्यायेन –मेदोवृद्धो सत्याम् अस्थिवृद्धिरपि निरस्ता, यतः, मेदसा सह अस्थि पोप्यते, अपि तर्हि मेदास्थानगतेनैव रसेन मेदोऽनुकारिणा ; एवमनयोः पक्षयोमहाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं ब्रूमः, बुद्धिविभवान्न पक्षबलाबलम्, तत्र न कश्चित् कार्यविरोध इत्युपरम्यते। ___ नन्वाहाररसाद् रसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक स्वीक्रियते, ततश्च, तस्य किं स्थानं, किंवा प्रमाणमिति नोच्यते ? न तस्याहारीत्कर्षापकर्षावेवंविधावुत्कर्षापर्षस्य निश्चितप्रमाणत्वाभावात्, तत्स्थानं तु धमन्य एव पोषकाहाररसस्य तस्य च पृथक् रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते, रसादिकारणरूपतया रसादिग्रहणेनैव ग्रहणात् । अत्र यद्ययोजः सप्तधातुसाररूपम्, तेन धातुग्रहणेनैव लभ्यते, तथापि प्राणधारणकत्र्तृत्वेन पृथक् पठति ; ये तु शुक्रजन्यमोज इच्छान्त, तेषामरमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति'रसादीनां शुक्रान्तानां यत् परं तेजस्तत् खल्बोजः' इति ।
For Private and Personal Use Only