________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः ]
सूत्रस्थानम् । सन्धुनितबलेन यथास्नोष्मणा सम्यग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकम् अनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपच बलवणसुखायुषा योजयति धातूनूर्जयति ।
तदन्तरग्निना सन्धुक्षितवलेन स्वेन स्वेनोष्मणा स्व स्वस्थितेनाग्निना सम्यगविपच्यमानः खलु कालवदविरतगमनशीलो यथा कालस्तथाविरतसेवानवस्थितः सवधातूनामनन्तरावस्थामारभ्य पूर्वावस्थानाशात्मकः यथास्वेनैवोष्मणा पाको यस्मिंस्तत् केवलं कृत्स्नं शरीरमनुपहतानि सबंधातूष्ममारुतस्रोतांसि यस्मिंस्त । तथाविधं सदेव उपचयबलवर्णसुखायुषा सह योजयति। अविरतसव्वधातुपाकमपि शरीरं नोपहतसर्चधातूप्ममारुतस्रोतो भवति। यतः सर्वान् शरीरधातूनूजयति । प्रतिदिनं यथाकालमभ्यवहतं क्रमेणाविरतं रसादीन् धातून जनयित्वा सर्वधातूष्ममारुतस्रोतांसि पोषयलं जनयति।
कर्तृत्वाभावात् ; अन्तरग्निना ज ठरेण वहिना सन्धुक्षितं बलं यस्य तेनान्तरग्निसन्धुक्षित. बलेनोमणा, यथास्वेनोप्मणेति पृथिव्यादिरूपाशितादेर्यस्य य उष्मा पार्थिवाग्न्यादिकरूपस्तेन, ववनं हि - भीमाप्याग्नेयवायव्याः पञ्चोप्माणः सनाभसाः । पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पन्ति हि ॥” इति। सम्यगविपच्यमानमित्यशितादि ; किंवा, यथास्वेनोप्मणेति यस्य रुधिरादेय उप्मा धात्वग्निरूपस्तेन सम्यगविपच्यमानमशितादि रसतामापन्नम्, यथा कालो नित्यगत्वेनानवस्थितः, तथानवस्थितोऽविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत् तथा, तेन, स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिना उपवयादियोजनमुपपन्नमिति दर्शयति । यदि हि पाकक्षीयमाणं शरीरं न स्यात् तदा स्वतः सिद्ध उपचयादौ किमशितादि कुर्यादिति भावः ; किंवा, कालवदित्यशितादिविशेषणम्, तेन, यथोतकाल कृतमशितादीत्यर्थः, अकालभोजनस्योपचयाकारकत्वात्, तथा, अनवस्थितः सर्वधातुषु पाको यस्य तस्याशितादेस्तत् तथा, एतेन, क्वचिदप्यशितादे रसरूपस्य पाकविगमनात् नोपचयादिर्भवतीति दर्शयति । एतच्च व्याख्यानं नातिसुन्दरम्, अस्यार्थस्य "अनुपहत" इत्यादिशरीरविशेषणेनैव लब्धत्वात् पुनः शरीरविशेषणमनुपपन्नम् । अनुपहतेत्यादि। अनुपहतानि सर्वधातूनाम् उष्ममारुतस्रोतांसि यस्य तत् तथा, यदा हि एकोऽपि धातुपाचकोऽग्निरुपहतो मारुतो वा धातुपोपकरसवाही व्यानरूपः क्वचिदुपहतो भवति, तथा स्रोतो वा धातुपोषकरसवहमुपहतं स्यात्, तदाशितादिकं धातूनामवर्द्धकत्वान्नोपचयादिकारकमिति भावः ; केवलमिति कृत्स्नं शरीरम्, किंवा, केवलमित्यधर्मरहितम्, अधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति ।
For Private and Personal Use Only