________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टाविंशोऽध्यायः। अथातो विविवाशितपीतीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्रं यः ॥ १॥ विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्नि
गङ्गाधरः-अथान्ने यथा वर्णप्रसादादिकं प्रतिष्ठितं तदुपदेष्टुमाह– अथात इत्यादि। सो पूर्ववद व्याख्येयम् । विविधाशितपीतीयमिति-अस्मिन् अध्याये प्रथमं विविधमशितपीतेत्यादि अत ऊद्ध वक्ष्यते तत्र यत्तत्पदार्थ विविधाशितपीतं तदधिकृत्य कृतोऽध्याय इति विविधाशितपीतीय इति । वक्ष्यते ह्यर्थे दशमहामूलीये। अधिकृत्याथेमध्यायमिति ॥ १ ।।
गङ्गाधरः--विविधमित्यादि। विवियमशिनं शालिपष्टिकादि नानाविध शूकधान्यकृतता दुलविकारभूतं प्रधानतयाभ्यवहतमन्नम्। तथा विविध पीतमान्तरीक्षादिजल-दुग्धदधिघृतमधुपद्यासवकाञ्जिकारिष्टचुक्रतक्रानकादिकं पानाथं द्रवभूतम् । विविध लीढ़मिति, नानाविवशूकशमीधान्यविकारपायसक्षीरसम्पव्यञ्जनगुड़ादिरूपं नानिद्रवं नातिसान्द्रं द्रवद्रव्यमुपकरण रूपेणावचारितम् । एवं विवियं खादितमिति, शूफशमीधान्य मांसशाकफलादि-विकार विशेष पिष्टकापूप- घृतपूरादि-फलादि कठिन-द्रव्यमवचारणया कल्पितमभ्यवहृतम् । तच्चतुष्कं जन्तोद्विविधं हितमहितञ्च, तत्राहितवर्ज हितमेव यद् भवति तच्चेदशितं पोतं लीढं खादितं भवति तदा तद्विविधमशितादिकं चतुष्कं द्रव्यं तस्य जन्तोरन्तरग्निना पक्कमाय रससंशयातुभूतं
चक्रपाणिः-पूर्वाध्याये अन्नं प्रागा.'' इत्युकम्, तेन प्रकारेणान्नं प्राणहेतुर्भवति तदभिधानार्थ विविधाशितपीतीयोऽभिधीयते, इयमष्यथंपरा संज्ञा ॥१॥
चक्रपाणिः - विविधमित्यादि । विविधमित्यनेनाशितादीनामवान्तरभेदं दर्शयति, अशितादिषु यो यः प्राय उपयुज्यते, स पूर्वमुक्तः , जन्तोर्हितमिति वचनम् अहितस्याशितादेबलवर्णादि
For Private and Personal Use Only