________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११६
चरक-संहिता। । विविधाशितपीतीयः धातवो हि धास्वाहाराः प्रकृतिमनुवर्तन्ते । तत्राहारः प्रसादाख्यं रसं * किट्टश्च मलाख्यमभिनिवर्तयति ।
किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णानिकस्मादित्यत आह-धातवो हीत्यादि। हि यस्मात धातवो रसादयः सवें ये प्रसादाख्या मलाख्या उपधावाख्याश्च ते घाखाहाराः पूर्वपूवेधातुराहारो येषां ते धाखाहाराः प्रकृतिमनुवत्तेन्ते पूर्वपूर्वधातुमाहरन्तस्ते प्रथपधातोराहार मशितादिकमलभमानाः प्रकृतिस्थमेव पूव्वेपूर्वधातूनाहरन्तः प्रकृतिक्षयमुन् पादयति। न तु प्रकृतिमनुवत्तेन्ते।
तत्रायो रसधातुय्यदाहृत्य पुष्यति तदाह - तत्राहार इत्यादि। आहारो ऽशितायः पक्को जाठराग्निना प्रसादाख्यो रमनामाननाय धातुमभिनिव्वेत्यति । किन्तु मूत्रपुरीषं मलाख्यमभिनिव्वेत्तयति। सर्वपामेव पाके पाकव्यापाराद द्विधा फलमभिनिव्वत्तेते प्रसादभागश्च मलभागश्च ; तत्राहारपाके फलं प्रसादाख्यो रसो मलाख्यं किट्ट मूत्रपुरीषम्। यथा तण्डुलपाके प्रसादाख्य ओदनः मलाख्यं फेनमण्डम् इति। स खल्यायो रसधातुरिमं रसमाहृत्य पुष्यति। किट्टश्च मूत्रमाहत्य मूत्रं पुरीषमाहत्य पुरीषं पुष्यति । तस्मात् पुनयंदयत् पुष्यति तदाह-किट्टादित्यादि । किट्टात् तदा हारजातकिट्टात् स्वेदादयः पुष्यन्ति। किट्टात् प्रथमं सस्नेहद्रवांशः स्वेदस्तमाहत्य स्वेदः पयति निःस्नेहद्रवांशमाहृत्य मूत्रं पुष्यति निवांशमाहृत्य पुरीषं पुष्यति। पकाशयगतस्य पुरीपस्य वायुना शोष्यमाणस्य परिपिण्डितरूपस्य परिणामेन जाताद्वायोर्वायुः पुष्यति। पच्यमानादनादम्लीभूतान स्वच्छभागात्मकं पित्तमाहृत्य पित्तं पुष्यति । भुक्तान्नपाकारम्भे यः फेनभाग उदीय्यते स श्लेष्मा, तमाहत्य श्लेष्मा पुष्यति। इति आहारज
ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति, तत् किमशितादिना क्रियत इत्याह--धातवो हीत्यादि। धातुराहारो येषां . ते धात्वाहाराः, धातवो रसादयो नित्य क्षीयमाणा अशितादिजनितधात्वाहारा एव सन्तः परं खास्थ्यमनुवर्त्तन्ते, नान्यथेत्यर्थः । योऽसौ धातूनामाहारस्तमाह-तत्रेत्यादि। तत्रेत्यशितादौ रसः किट्टञ्चाभिनिवर्तत इस्थन्वयः, काहारप्रसाद इत्या । यस्य स तथा, प्रसादः सारः ; किट्टमसारभागः ; किट्टादिति मलाख्यात्. तेन अन्नाद् यः किटांशस्ततो मूत्रपुरीषे भवतो वायुश्च, रसात् पच्यमानात् मल: कफः ; इमानि ग्रहण्यध्याये वक्ष्यमाणान्यनुसतव्यानि, वक्ष्यति हि-किट्टमन्नस्य विष्मूत्रं रसस्य तु
* तत्राहारप्रसादाख्यो रसः, इति चक्रतः पाठः ।
For Private and Personal Use Only