________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् । दीप्ताग्नयः खराहाराः कार्मनित्या महोदराः। ये नराः प्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम् ॥ ७२॥ हिताभिर्जुयान्नित्यमन्तरग्निं समाहितः। अन्नपानसमिद्भिर्ना मात्राकालौ विचारयन् ॥
आहिताग्निः सदा पथ्यान्यन्तरग्नौ जुहोति च। दिवसे दिवसे ब्रह्म जपत्यपि ददाति च ॥ नरं निःश्रेयसे युक्तं साल्यज्ञ पानभोजने ।
भजन्ते नामयाः केचिद् भाविनोऽप्यन्तराहते ॥ ग्यान् सुकुमारान् सुखोचितान् पुरुषान् प्रति क्रियते । ये च नरा दीप्ताग्न्यादयस्तान् प्रति माषादेगुरुलाघवं नावश्यं चिन्त्यं भवतीति ॥ ७२ ॥
गङ्गाधरः-ननु ते किं यथेष्टमाहारमनीयुरित्यत आह-हिताभिरित्यादि। समाहितः समाधिमान् पुरुषः खलु मात्राकाली विचारयन् हिताभिरनपानात्मिकाभिः समिद्भिनित्यमन्तरग्नि जाठराग्नि जुहुयात्। ताभिहिताभि. रन्नपानसमिद्भिः आहिता निः सन्नपि सदा प्रतिदिनं पथ्यान्यन्तरग्नौ जुहोति च न खल्वेकवारं हिताभिरन्नपानसमिद्भिरन्तरग्नि जुहुयान्नित्यमेव जुहुयात् एवं सदैवाहितानिः अन्तरग्नौ दिवसे दिवसे पथ्यानि जुहोति च ब्रह्म चाजपामन्त्रं जपति च निश्वासोच्छासाभ्यां हंस इति मन्त्र जपति च ददाति च ब्रह्म व हंस इमं मन्त्रं निश्वासेन त्यजति । एवं पानभोजने निःश्रेयसे युक्तं सात्म्यक्ष नरं चरादिकृता गुरुलाघवचिन्ता अल्पाग्नि प्रति प्राय इति दर्शयन्नाह-गुन्नित्यादि। अत्राप्यबलवत्वेन मन्दकाचैरपि वह्निमान्द्यमेव लक्षणीयम्। खराहारा इति कटिनाहारसामर्थ्याः, महोदरत्वेनापि मेदोऽवरोधात् महाग्नित्वं दर्शयति, नावश्यं चिन्त्यमित्यनेन दीप्ताम्नीनामपि प्रतिस्तोकप्रयोजनाय गुरुलाघवचिन्ता विद्यत इति दर्शयति, यतः, दीप्ताग्न्यादीनामपि गुरुद्रव्यमग्नेः प्रतिपक्षमावहत्येव, स्वभावतोऽग्निविरुद्धात् ॥ ७२ ॥
चक्रपाणिः-समिध इव समिधः, आहिताग्निरिति सात्म्येन व्यवस्थापिताग्निः, किंवा, भाहिताग्निरिवाहिताग्निः, तेन, आहिताग्निर्यथा प्रातः सायं जुहोति, तथायमपि प्रातः सायन पथ्यान्यन्तराग्नौ जुहोति । ब्रह्म जपतीति प्रणवादिमन्त्रमावर्त्तयति ; ददाति चेति यथाशक्ति दानमाचरति, तं नरं निःश्रेयसे कल्याणे युक्तमामया न भजन्ते, भाविनोऽपीति जन्मान्तरेऽपि, भत्रेह जन्मनि पथ्याशित्वान्न भवन्ति गदा जन्मान्तरेऽपि ब्रह्मज पज्ञानाभ्याम् अर्जितधर्मप्रभावात
For Private and Personal Use Only