________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नपानविधिः
१११०
चरक-संहिता। षट्त्रिंशतं सहस्राणि रात्रीणां हितभोजनः।
जीवत्यनातुरो जन्तुर्जितात्मा सम्मतः सताम् ॥७३॥ भाविनोऽपि केचिदामया अन्तरादृते विनान्तरमवकाशं विना न भजन्ते यदा खन्तरमहितपानभोजनं प्राप्नुवन्ति तदा भजन्ते इति ।
एवं हितान्नपाने यावन्तं कालं जीवति तदाह-पत्रिंशतमित्यादि। रात्रीणां षट्त्रिंशतं सहस्राणि खल्वन्तरेण दिनानि सम्भवन्तीत्यतोऽहोरात्राणां पत्रिंशत्सहस्राणि। त्रिंशदिनमासानां द्वादशभिवर्षमेकं, तेषां वर्षाणां शतं भवति, तावत्कालं हितभोजनो जन्तुरनातुरः सन् जितात्मा च सन् सतां सम्मतः सन् जीवतीति। नन्वेवं हितमन्नपानं केन प्रकारेणाभ्यवहरेदिति चेदुच्यते, तदा तदुन्नेयम् । सश्रुते तु तदुक्तम् ---अथाहारविधिं वत्स विस्तरेणाखिलं शृणु। आप्तावितमसङ्कीर्ण शुचि कायं महानसम्। तत्राप्तगुण. सम्पन्नमन्नं भक्ष्यं सुसंस्कृतम् । शुचौ देशे सुसंगुप्तं समुपस्थापयेद भिषक् । विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः। सिद्धेमन्त्रैर्हतविष सिद्धमन्नं निवेदयेत् । वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम्। घृतं कार्णायसे देयं पेया देया तु राजते। फलानि सवैभक्ष्यांश्च प्रदद्याद वैदलेषु च। परिशुष्कपदिग्धानि सौवर्णेषु प्रकल्पयेत् । प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् । कट्टराणि खडांश्चैव सर्वान शैलेषु दापयेत् । दद्यात् ताम्रमये पात्रे सुशीतं मुशृतं पयः। पानीयं पानकं मद्य मृन्मयेषु प्रदापयेत् । काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । दद्याद वैदर्यपात्रेषु रागपाडवसट्टकान्। पुरस्ताद विमले पात्रे सविस्तीर्णे मनोरमे । मूदः सूपोदनं दद्यात् प्रदेहांश्च सुसंस्कृतान्। फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च। तानि दक्षिणपाश्र्वे तु भुञ्जानस्योपकल्पयेत् । प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः। खड़ान यूषांश्च पेयाश्च सव्ये पार्वे प्रदापयेत् । सर्लान् गुड़ विकारांश्च रागपाडवसट्टकान्। पुरस्तात् स्थापयेत् प्राशो द्वयोरपि च मध्यतः। एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम्। भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ । एव न भवन्ति ; अत एवाह-अन्तराहत इति, अन्तरादिति कारणात् ऋने विना, अपथ्यस्य तथा अधर्मस्य रोगकरणभावात् गदा भवन्तीति भावः। वर्षशतायुष्वमपि हितादिभोजनाद् भवतीत्याह-पत्रिंशतमित्यादि। एतावतीभी रात्रिभिवर्षशतमेव भवतीति, जितात्मा जिते. न्द्रियः, सम्मतः पूजितः ॥७३॥
For Private and Personal Use Only