________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०८ चरक-संहिता।
[अन्नपानविधिः अल्पादाने गुरूणाञ्च लघूनाश्चातिसेवने। मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे । गुरूणां स्वल्पमादेयं लघूनां तृप्तिरिष्यते। मात्रां द्रव्याण्यपेक्षन्ते मात्रा चाग्निमपेक्षते ॥ बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः । अन्नपानेन्धनैश्चाग्निर्दीप्यते शाम्यतेऽन्यथा ॥ गुरुलाघवचिन्तेयं प्रायेणाल्पबलान प्रति । मन्द क्रियाननारोग्यान सुकुमारान् सुखोचितान ॥ गङ्गाधरः-अथ किमर्थ मात्रा परीक्ष्यते इत्यत आह-अल्पादान इत्यादि। गुरूणामल्पादाने च लघूनामतिसेवने च द्रव्याणां गुरुलाघवेऽपि सति मात्राकारणं मात्राशितीयेऽध्याये पूर्वमुपदिष्टम् । गुरूणां खल्पमादेयं लघूनां तृप्तिय दिष्यते तत्र द्रव्याणि मात्रामपेक्षन्ते मात्रा चाग्निम् अपेक्षतेऽग्निवलापेक्षिणी हि मात्रा, बलश्चाग्नौ प्रतिष्ठितमारोग्यश्चाग्नौ प्रतिष्ठितमायुश्चाग्नौ प्रतिष्ठितं प्राणाश्चानौ प्रतिष्ठिता इति। अग्निश्चान्नपानरिन्धनैर्दीप्यतेऽन्यथानपानेन्धनविना शाम्यते। तिङोऽपि तङमिच्छन्ति परस्मैपदिनां कचिदित्युक्तेस्तङ । ननु किमेवं चरादिकृतगुरुलाघवचिन्ता किं सव्वेष्वेव पुरुषेष्वाहारविधी कत्तेव्या भवति ? इत्यत आह-गुरुलाघवेत्यादि । इयं मांसस्य चरादिकृतगुरुलाघवचिन्ता प्रायेणाल्पबलान् मन्दक्रियान् अनारो
चक्रपाणिः-अल्पादान इत्यादि मात्राविवरणम्,—गुरूणामपि द्रव्याणाम् अल्पस्य स्तोकमात्रस्यादाने यल्लाघवं, तस्मिन् लाघवे मात्रामात्रकारणम्, न द्रव्यं, तस्य गुरुत्वात् ; एवं लघूनामतिसेवने गौरवं मात्राकृतम् ; उद्दिष्टमिति मात्राशितीये पुनरुक्तम् ; द्रयाणि मात्राम् अपेक्षन्त इति यथोचितमात्रावन्ति सुखं पच्यन्त इत्यर्थः ; मात्रा चाग्निमपेक्षत इति प्रतिपुरुषं प्रतिदिनञ्चाग्निभेदमपेक्ष्य मात्रा महती स्वल्पा वा भवति, न प्रतिनियतमात्रा विद्यत इति भावः। कुतः पुनरग्न्यपेक्षया मात्रा क्रियत इत्याह-बलमित्यादि। अग्निमपेक्ष्य मात्रया प्रयुक्तया अग्न्यनाशाद बलादयो भवन्तीति भावः, अग्नी प्रतिष्टिता इति अग्न्यधीनाः, यथा-राजाश्रिताः प्रजा इति । प्राणा इति वायवः, किंवा, प्राणा आश्रयाः शङ्खादयो दश प्राणाः ; इन्धनं काष्ठम्, इन्धनमिवेन्धनं, तैः, किंवा, अग्निदाह इन्धनमुच्यते । अन्यथेत्यनिन्धनम् । इयं
* ज्वलति व्येति चान्यथा इति चक्रोक्तः पाठः ।
For Private and Personal Use Only