________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः } सूत्रस्थानम्।
११०७ गुरूणां लाघवं विद्यात् संस्कारात् सविपर्ययम् । बीहेर्लाजा यथा च स्युः शत्तूनां सिद्धपिण्डकाः ॥७१॥
अथ किमर्थं संस्कारः परीक्ष्यते इत्यत उच्यते-गुरूणामित्यादि। यथा संस्काराद् गुरूणां लाघवं विद्यात् तथा सविपर्ययं लघूनां संस्काराद् गौरवं विद्यात् । उदाहरति-वीरित्यादि । व्रीहेगु रोभर्जनेन संस्काराल्लाजा लघवः स्युः। यथा च लघूनां शक्तूनां पिण्डीकरणात् संस्कारात् सिद्धपिण्डिका गुर्व्यः स्युरिति। सुश्रुते चैवमुक्तं तद् यथा-स्त्रियश्चतुष्पादेषु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीरा अल्पशरीरेषु महाशरीरा विशिष्टतमा एवमेकजातीयानां महाशरीरेभ्यः कृशशरीरा विशिष्टतमाः। स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः। तद् यथा- रक्तादिषु शुक्रान्तेषु धातुषु उत्तरोत्तरास्तु गुरुतरास्तथा सक्थिस्कन्धक्रोडशिरस्पादकरकटीपृष्ठचम्मेकालेयकयकृदन्त्राणि । शिरःस्कन्धं कटीपृष्ठं सक्थिनी चात्मपक्षयोः। गुरुपूर्व विजानीयाद धातवस्तु यथोत्तरम्। सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः । पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम्। उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्। पक्षोत्क्षेपात् समो दिष्टो मध्यभागस्तु पक्षिणाम्। अतीव रुक्षं मांसन्तु विहङ्गानां फलाशिनाम् । हणं मांसमत्यर्थ खगानां पिशिताशिनाम् । मत्स्याशिनां पित्तकरं वातघ्नं धन्वचारिणाम्। जलजानूपजा ग्राम्याः क्रव्यादैकशफास्तथा। प्रसहा विलवासाश्च ये च जङ्घालसंशिताः। प्रतुदा विष्किराश्चैव लघवः स्युयथोत्तरम् । अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा। प्रमाणाधिकास्तु स्वजातो चाल्पसारा गुरवश्च । सर्वप्राणिनां सर्वशरीरेभ्यो ये प्रधानतमा भवन्ति यकृत्प्रदेशवर्त्तिनस्तानाददीत। प्रधानलाभाभावे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति। भवति चात्र॥ चरः शरीरावयवाः स्वभावो धातवः क्रियाः। लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ॥ इति ॥७०/७१ ॥
भूयस्त्वं हेतु ब्रु वते ; किन्तु, खभावस्तत्र हेतुः अपवाद इति पश्यामो विहङ्गेषु । सविपर्ययमिति संस्कारालवूनामपि गौरवं विद्यादित्यर्थः । तदेव संस्कारजन्यं लाघवं गौरवञ्चाह-प्रीहे. रित्यादि। गुरोरपि व्रीहेः संस्काराल्लाजा लघव इत्यर्थः, सक्त नाञ्च लघूनां सिद्धपिण्डिका गुरवः, सिद्धपिण्डिका अग्निपाचिताः पिण्डाः ॥ ७१॥
For Private and Personal Use Only