________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नपानविधिः
११०६
चरक-संहिता। धातूनां शोणितादीनां गुरु विद्याद यथोत्तरम् । अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः ॥ गौरवं लिङ्गसामान्ये पुंसां स्त्रीणान्तु लाघवम् । महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा ॥
अथ धातवः किमर्थ परीक्ष्यन्ते इत्यत आह-धातूनामित्यादि। रस. धातोराहारोपयोगासम्भवादुक्त शोणितादीनामिति । यथोत्तरं शोणितादिकं गुरु विद्यात् । किमर्थं क्रिया परीक्ष्यते इत्यत आह-अलसेभ्य इत्यादि । अलसा अत्यल्पक्रियास्ते सजातीयेष्वपि लघवः सन्तोऽपि तेभ्यो विशिष्टा लघवो ये बहुक्रिया भवन्ति। तथा ये स्वभावतो गुरवोऽलसास्तेभ्यो विशिष्टा ये बहुक्रिया गुरवः क्रियाबाहुल्यान्न तथा गुरवः स्युरिति ।। ___ अथ लिङ्ग किमर्थं परीक्ष्यते इत्यत आह-गौरवमित्यादि । लिङ्गसामान्ये पुसां गौरवं लिङ्गविशेषात् स्त्रीणां लाघवमिति तर्हि किं वराहादीनां गुरूणां स्त्रीणां लावादिभ्यः पुभ्यो लाघवमिति ? नैवं, लिङ्गं हि पुस्खादिकं सामान्य सति वा लिङ्गे सामान्ये स्वजातौ पुसां गौरवं स्त्रीणां लाघवमिति । एतच्च चतुष्पादाभिप्रायेण बोध्यं, यत उक्तं हारीतेन। चतुष्पादपु लध्वी स्त्री विहगेषु लघुः पुमानिति । किमर्थं प्रमाणं परीक्ष्यते इत्यत उच्यतेमहेत्यादि। स्वजातौ महाप्रमाणा गुरवः स्वल्पप्रमाणा लघवो यथा हच्चिङ्गटा गुरवः क्षुद्रचिङ्गटा लघवः। स्वजाति रिहान्त्यविशेषादन्यत्र जातिविशेषो वराह खादिविवादिनं तु यत् सामान्यञ्च विशेषश्च पशुखादि पक्षिखादिः। प्रमाणन्तु द्विविधं स्वभावकृतं वयःकृतश्च । स्वभावाद्रोहितो महान् वयसा तु प्रथमतः क्षुद्रदेहो मध्ये महादेहः शेष पक्कदेह इति वयसः प्रमाणे. ऽन्तर्भावः।
चक्रपाणिः-स्वभावादिति प्रकृत्या। क्रियोदाहरणम्-अलसभ्य इत्यादि, अलसेभ्य इत्यल्पक्रियेभ्यः । विशिष्यन्त इति विशिष्टा भवन्ति लघवो भवन्तीत्यर्थः। लिङ्गान्ते ज्ञायन्तेऽनेनेति लिङ्ग जातिः, तेन, लिङ्गसामान्ये जातिसामान्ये, एतच्च चतुष्पादाद्यभिप्रायेण बोद्धव्यम्, पक्षिषु विपर्ययः, यदाह हारीतः-“चतुष्पादेषु लध्वी स्त्री विहगेषु लघुः पुमान्” इति, अनाप्युक्तम्"स्त्रियश्चतुष्पदे ग्रायाः पुमांसो विहगेषु च। पुंसाञ्च गौरवे अत्यर्थगुरोः शुक्रस्यारम्भकस्य
For Private and Personal Use Only