________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् । शरीरावयवाः सथि-शिररकन्धादयस्तथा । सक्थि मांसाद गुरुतरं स्कन्धकोड़शिरस्पदम् ॥ वृषणौ चर्म मेदश्च श्रोणीबुक्के यकृद गुदम् । मांसाद गुरुतरं विद्याद् यथास्वं मध्यमस्थि च ॥ ७० ॥ स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः । स्वभावाद् गुरवो माश वराहमहिषास्तथा ॥
अथ शरीरावयवानाह---शरीरेत्यादि। सक्थिशिरःस्कन्धादयः शरीरावयवास्तेषां परीक्षा किमर्थत्यत आह--सक्थीत्यादि। सक्थिमांसाद गुरुतरं क्रमेण स्कन्धक्रोडशिरस्पदम् । ___ एवं मांसादपि गुरुतरखं येषां तदाह-वृषणावित्यादि। मांसाद गुरुतरं क्रमेण वृषणादिकं विद्यात्। मांसाद गुरू वृषणो ततो गुरु चम्म ततो गुरु मेढ़ ततो गुरुः श्रोणी ततो बुक्कं ततो यकृत् फ्लीहा च। ततो गुदमिति । अस्थि च यथास्वं यस्य गुरोवो गुम्यौवास्थि मध्यगुरु मध्यलघु। गुरोः सत्त्वस्यास्थि नातिगुरु नातिलघु। लघोः सत्त्वस्यास्थि नातिलघु नातिगुरु ।
स्वभावः किमर्थ परीक्ष्यत इत्यत उच्यते-स्वभावादित्यादि । खो भावः स्वभावः स्वरूपं निसर्गः प्रकृतिरित्येकोऽर्थः । तस्मात् स्वरूपत एव मुदगा लघवः। तथा लघवो लावादयः स्वभावादव। स्वभावादेव च माषा वराहादयो गुरव इति। स्वभावं परीक्ष्य तत्र चरादितो गुरुलाघवं विविच्य प्रयुञ्जीत।
धारिणामपि श्येनादीनामनुक्त लाघवं स्वजातिप्रसहान्तरापेक्षया बोद्धव्यमाकाशस्य लघुत्वात् ; यत् तु ब्रु वते-आकाशचारिणां गौरवलाघवानियमादकथनमिति, तन्न, तथा सत्याकाशस्याप्रयोजइत्वात् “चरोऽनूपजलाकाशधन्वाद्यः' इत्यत्राकाशकथनं निष्प्रयोजनं स्यात् । मांसाद गुरुतरं विद्यादिति गुरुत्वेन प्रतिपादनं, सक्थ्यादिमांसाद् वृषणादि गुरुतरं विद्यादिति ; यथास्वमित्यत्र शरीरसक्थ्यादीनामेवैतत् गौरवादि, न त्वन्यस्य शरीरापेक्षयेति ज्ञेयम् ; मध्यमित्यन्तराधिः, अस्थि इति अस्थिस्थितं मांसम् । अन्ये तु मव्यमित्यस्थिमध्यगतं मज्जानं त्रुवते, तन्नातिसुन्दरम्, तस्योत्तरोत्तरधातुकथनेनैव लब्धत्वात् ॥ ७० ॥
१३९
For Private and Personal Use Only