________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shrik
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
११०४
चरक-संहिता। [ अन्नपानविधिः चरः शरीरावयवाः स्वभावो धातवः क्रिया। लिङ्गप्रमाणं संस्कारो मात्रा चास्मिन परीक्ष्यते ॥ चरोऽनूपजलाकाश-धन्वाद्यो भक्ष्यसंविधिः । जलजानूपजाश्चैव जलानपचराश्च ये॥ गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः । लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ॥
अथ मांसयोनीनां मृगपक्षिप्रभृतीनामुक्तगुणतो विशेषगुणहेतुमाह-चर इत्यादि। चर इति भक्षणार्थ चरत्यस्मिन् इति चरश्चरणशीलदेशः भक्षणश्च अनूपजलजङ्गलादिः। शरीरावयवाः शिरःस्कन्धादयः। स्वभाव इति मांसाशिखानाशिवादिने तु गुरुलाघवादिः खस्वगुणनिदेशे पूक्तखात्। धातवः शोणितादयः। क्रिया सततगमनागमनादिरूपा । लिङ्गं पुस्खादि। प्रमाणं हस्खदीर्घादि। संस्कारः पाकादिषु भटित्रादिकरणम् । मात्राऽग्निवलापेक्षिणी द्रव्यपरिमाणभूता चास्मिन्ननुपानविधौ परीक्ष्यते ।
तत्र चरमाह--चर इत्यादि। अनूपजलाकाशधन्वाद्यो देशस्तत्र कङ्करमांसफलादीनां भक्षसंविधानश्च चर उच्यते। तत् परीक्ष्यते, किमर्थ ? गुरु. लाघवज्ञानार्थम् । कथं विज्ञायते ? तदाह-जलजेत्यादि। ये सत्त्वाः प्राणिणो जलजा अनूपजाश्च ये च सत्त्वा जलचराः स्थलजा अनूपदेशचराश्च गुरुद्रव्यभक्षास्ते गुरवो भवन्ति। ये सत्त्वा धन्वदेशजाः, ये च धन्वदेशचरास्ते लघुद्रव्यभक्षा लघवः स्मृताः । इति चरपरीक्षाप्रयोजनम् ।
चक्रपाणिः---अपरमप्यनुक्तानपानगुणज्ञानकारणमाह--चर इत्यादि। चर्यत इति चरो देशः, भक्ष्यश्च सामान्येन गृह्यते ; क्रिया व्यापारः, प्रमाण मानम्, अत्रेत्यन्नपानगुणाधिकरणे ।
चरं विवृणोति--चरोऽनूपेत्यादि। भक्ष्यस्य संविधिः भक्ष्यभक्षणम् ; तत्र अनूपजलाकाशधन्वाद्य इत्यनेन गतिरूपश्चर इत्युच्यते, भक्ष्यसंविधिवचनेन च भक्ष्यरूपश्चर उच्यते ; अत्रैवोदाहरणमाह-जलजेत्यादि। अत्र जलजत्वेनानूपजत्वेन च जले वानूपे वा गतिरेव दय॑ते, न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते, ये त्वन्यत्र जाता अप्यन्यत्र तिष्ठन्ते प्रायः काकमद्गुप्रभृतयः, तदग्रहणार्थमाह-'जलानूपचराश्च ये' इति, एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम्, एवमनूपचरत्वाद्यपि शेयम्। भक्ष्यरूपचरकृतं गुणमाह--- गुरुभक्ष्या इत्यादि। धन्वजा धन्वचारिण इत्यत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन आकाश
For Private and Personal Use Only