________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३ा अध्याया।
सूत्रस्थानम् । अनुपानेकदेशो-*-ऽयमुक्तः प्रायोपयोगिकः। द्रव्यन्तु न हि निर्देष्टुं शक्यं कात् स्न्येन नामभिः ॥ यथानामौषध + किञ्चिद् देशजानां वचो यथा।
द्रव्यं तत् तत् तथा वाच्यमनुक्तमिह यद भवेत् ॥ ६ ॥ गङ्गाधरः--उपसंहरति--अनुपानत्यादि। कस्मात् प्रायोपयोगिकोऽनुपानकदेश उक्तो न कृतस्न इत्यत उच्यते-द्रव्यन्वित्यादि। हि यस्माद् द्रव्यं कानन नामभिनिद्देष्टु न शक्यं कैरपि भवति। यथानाम किश्चिदोषधन्तु शक्यं स्यात् । देशजानां वचो यथा। यथा कृत्स्नं वचो निर्दष्टुन कैरपि शक्यं देशजानामेकैकदेशजानां वचस्तु शक्यं निर्देष्टुमिति, तस्मादिह यदनुक्तं द्रव्यं भवेत् तत् द्रव्यं तथा वाच्यमिति ॥ ६९॥
चक्रपाणिः--अन्नपानद्रव्यैकदेशकथनं सहेतुकमाह---अन्नेत्यादि। अन्नपानकदेशः प्रायोपयोगिक इति बाहुल्येन यदुपयुज्यते, एतेन यद् बाहुल्येनोपयुज्यते तस्य शृङ्गग्राहिकतया कथनम्, प्रायोपयुज्यमानानां शृङ्गग्राहिकतयाऽल्पकथनमल्पदोपमिति दर्शयति, तथा अल्पदोपस्यापि परिहारार्थम् ; तदपि किमिति नोच्यत इत्याह द्रव्याणीत्यादि। द्रव्याणि कान्येनेति साकल्येन, निर्देष्टु नामभिरिति नामभिरपि न शक्यं, केनचिदिति शेषः, हि शब्दो यस्मादर्थे ; एतेन सर्वाणि च्याणि नाममात्रेणापि वक्तु कश्चिन्न पारयत्यतिबहुत्वात्, तत् का कथा अशेषानपानद्रव्यस्य शृङ्गग्राहिकतया गुणकथनं प्रतीति भावः ; किंवा, नामभिर्युक्तानि तानि कान्येन निर्दष्टुमिति गुणतः कथयितुं न शक्यं केनचिदिति योजना। अथ कथं हि अत्र अकीर्तितानपानस्य तर्हि गुणा निर्दृ एव्या इत्याह-यथेत्यादि। यथा येन प्रकारेण नानौषधं किञ्चिदिति पूर्वाध्याये प्रोक्त तथा तेन प्रकारेणानुक्त द्रव्यं वाच्यं, गुणत इति शेपः। पूर्वाध्याये हि "तत्र द्रव्याणि गुरुखर' इत्यादिना ग्रन्थेन पार्थिवादिभेदेन विशिष्टेन च कर्मणा प्रोक्तानि द्रव्याणि, ततश्चानुक्त द्रव्यं तेनैव गुरुखरादिना गुणेन पार्थिवत्वादि प्रतिपद्य यथोपचयादिकर्मकर्तृकतया व्यपदेष्टध्यमित्यर्थः ; तदेवानिाईष्टस्य द्रव्यस्य गुरुखरत्वादि कथं ज्ञेयमित्याह--. देशजानां वचो यथेति, देशजा देशान्तरीयाः, तद्देशीयवचनात् ते ते गुरुखरादयो शेषा इत्यर्थः ; किंवा, देशजा यथा तत्तद्रव्यं व्यवहरन्ति-'इदं मधुरमम्लम्' इत्यादि, तत् प्रतिपद्य, मधुरत्वाम्लत्वादिप्रतिपन्नपृथिव्याद्यस्य कारणमिति पृथिव्यादीनां गुर्वादिगुणगणेन कर्मणा च रसोक्तन तद् वक्तव्यमित्यर्थः ॥ ६९॥
* अन्नपानैकदेश इति चक्रपाणिसम्मतः पाठः । । यथानामौपमित्यत्र यथा नानौपमिति क्वचित् पाठः ।
For Private and Personal Use Only