________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ अध्यायः
सूत्रस्थानम् । ऊज्जयति पर्याप्तिमभिनिवर्तयति भुक्तमवसादयति अन्नसंघातं भिनत्ति मादवमापादयति क्लेदयति जरयति सुखपरिणामितामाशु व्यवायिताश्चाहारस्य जनयतीति ॥६७॥
भवन्ति चात्र। अनुपानं हितं युक्तं तर्पयत्याशु मानवम् । सुखं पचति चाहारमायुषे च बलाय च ॥ नोर्दाङ्गमारुताविष्टाः न हिकाश्वासकासिनः। न गीतभाष्याध्ययन-प्रसक्ता नोरसि क्षताः ॥ पिबेयुरुदकं भुक्ता तद्धि कण्ठोरसि स्थितम् ।
स्नेहमाहारजं हत्वा भूयो दोषाय कल्पते ॥ ६८॥ प्रीतं करोति । ऊर्जयति जीवयति बलवत्तं वा करोति । ऊज बलजीवनयोचौरादिकः। भुक्त्वा जलादिकमनुपिवतोऽनुपानं तजलादिकं भुक्तमासादयत् पाप्ति शरीरेण सहकीभावमभिनिव्वर्त्तयति। अन्नसंघातं भिनत्ति। तदन्नस्य माईवमापादयति । तदन्नं क्लेदयति जरयति सुखपरिणामताश्चाशुव्यवायितामखिलदेहव्यापिताञ्च आहारस्य जनयति। इति ॥६७॥
गङ्गाधरः-तत्र श्लोका वत्तन्ते, भवन्ति चात्रेत्याह-अनुपानमित्यादि। उदकमनुपानं हितं युक्तमाशु मानवं तर्पयति । आहारं सुखं पाचयति । आयुषे बलाय च भवति । ये तूगिमारुताविष्टा ये हिवाश्वासकासिनः ये गीतभाष्याध्ययनप्रसक्ता ये चोरसि क्षतास्ते सवें भुक्त्वा नोदकं पिबेयुः। कस्मात् ? तद्धीत्यादि। हि यस्मात् तद् भुक्त्वा पीतमुदकं कण्ठोरसि तेषां कण्ठे वक्षसि च स्थितमाहारजं स्नेहं हखा भूयो भूयिष्ठं दोषाय कल्पते क्लप्तं स्यादिति ।
चक्रपाणिः-यैरनुषानं न कर्त्तव्यम्, तानाह-नोङ्गित्यादि। कण्ठोरसि स्थितमित्यादिना तदुक्त मारुतादीनामनुपानं कठोरसि स्थितमेव भवति नाधो यातीति दर्शयति ; स्नेहमाहारजं हत्वाभिभूय, भूयो दोषाय कल्पते, वातलक्षणं दोषं करोतीत्यर्थः, आहारस्नेहेन यो वातप्रशमः कर्त्तव्यस्तं शैत्यप्रकर्षात् पानीयमभिभवतीत्यर्थः ; एतेन, ददुच्यते-- अपां स्निग्धत्वेन स्नेहन
For Private and Personal Use Only