________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। अन्नपानविधिः
११००
चरक-संहिता। स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम् । कफऽनुपानं रुक्षोष्णं क्षये मांसरसः परम् ॥ उपवासाध्वभाष्यस्त्री-मारुतातपकर्मभिः । क्लान्तानामनुपानार्थं पयः पथ्यं यथामृतम् ॥ सुरा कृशानां पुष्ट्यर्थमनुपानं विधीयते। कार्याथै स्थूलदेहानामनु शस्तं मधूदकम् ॥ अल्पाग्नीनामनिद्राणां तन्द्राशोकायक्लमः। मद्यमांसोचितानान्तु मद्यमेवानु शस्यते ॥६६॥ अथोदकानुपानकर्म प्रवक्ष्यामि। अनुपानं तर्पयति प्रीणयति
विस्तरतोऽभिधास्ये ॥ इति । स्निग्धोष्णमित्यादि। स्निग्धश्च यदुष्णं यत् पेयं द्रवद्रव्यं तन्मारुते व्याधौ शस्तम् । मधुरञ्च यच्छीतलं तत् पित्ते व्याधौ शस्तम् । रुक्षश्च यदुष्णं तत् पेयं द्रवद्रव्यं कफेऽनुपातु शस्तम् । क्षये धातुक्षयेऽनुपानं मांसरसः परं श्रेष्ठं भवति । सश्रुते च-स्निग्धोष्णं मारुते पथ्यं कफे रुक्षोष्णमिष्यते। अनुपानं हितश्चापि पित्ते मधुरशीतलम् ॥ इति। उपवासेत्यादि। उपवासादिकम्मेभिः क्लान्तानां यथामृतं तथानुपानार्थ पयः पथ्यं भवति । उक्तश्च सुश्रुते-क्षीरं घमाध्वभ्याष्यस्त्रीलान्तानाममृतोपमम् । इति। सुरेत्यादि। सुरा कृशानां पुष्ट्यर्थमनुपानं विधीयते। स्थूलदेहानां मेदखिना कार्यार्थ मधूदकमनुपाने शस्तमिति । तदुक्तं सुश्रुते-सरा कृशानां स्थूलानामनुपानं मधूदकम् । इति। अल्पानीनामित्यादि। ये मद्यमांसोचिता मद्यमांसाभ्यासयुक्तास्तेषां ये चाल्पानयस्तेषां ये चानिद्रास्तेषां ये च तन्द्राशोकभयलमैयुक्तास्तेषाश्च मद्यमेवानुपानं शस्यते । सुश्रते च-मद्य मद्योचितानान्तु सव्वेमांसेषु पूजितम् । इति ॥६५॥६६॥
गङ्गाधरः-अथेत्यादि। अन्नपानस्य भोजनादनु जलादिपानं कम्से वक्ष्यामीति प्रतिज्ञा। जलमनुपानं, तत् पीतवन्तं तर्पयति तृप्त करोति । प्रीणयति
पुरुषीये। पेयमपेयञ्च सहजगुणदोषवत्त्वात् तथा उपयुक्तभोजनापेक्षया। स्निग्धोष्णमित्यादिनापि अनुपानमाह । अनु शस्तमित्यनुपानम् । अनुपानगुणमाह-- अथेत्यादि। पर्याप्तिस्तृप्तिः ॥६६॥६॥
For Private and Personal Use Only