________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० अध्यायः सूत्रस्थानम् ।
१०१६ मद्याम्बुगोरसादीनां स्वे स्वे वर्गे विनिश्चयः । यदाहारगुणैः पानं विपरीतं तदिप्यते। अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च ॥ आसवानां समुदिष्टामशीतिं चतुरुत्तराम् ।
जलं पेयमपेयञ्च परीक्ष्यानुपिबेद्वितम् ॥ शाकसाधनं हि स्विन्नं निष्पीडितरसं प्रभूतस्नेहसाधितमुक्त, हरितानान्तु तथा साधनं न काय्येमिति। अत्र कन्दानामपि वजनमुन्नेयम् । तद्यथा सुश्रुते-बालं ह्यनात्तैवं जीर्ण व्याधितं क्रिमिभक्षितम्। कन्दं विवज्जेयेत् सर्च यो वा सम्यङ् न रोहति ॥
कृतान्ने वज्ज्येधान्यादीन्युक्त्वा भोजनादनु यत् पेयं तदाह-मदात्यादि । मद्यादीनां द्रव्याणां स्वे स्वे वर्गे यस्य यदगुणस्य विनिश्चयः कृतः, तत्र यत् पुनराहारद्रव्यगुणविपरीतगुणं स्यात् तत् तस्याहारस्यानु पानमिष्यते। यच्च धातूनामविरोधि स्यात् तदप्यन्नानुपानमिप्यते । इत्यनुपानं सामान्यतोऽभिहितम् । अपरश्च-आसवानामित्यादि। आसवानां चतुरुत्तरामशीतिं समुद्दिष्टां जलश्वोद्दिष्टं, तत्र पेयमपेयश्च परीक्ष्य हितमनुपिवेत्। सुश्रुते च-अम्लेन केचिद्विहता मनुप्या माधुय्ययोगे प्रणयीभवन्ति। तथाम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ॥ शीतोष्णतोयासवमद्यवृष-फलाम्लधान्याम्लपयोरसानाम् । यस्यानुपानन्तु हितं भवेद् यत् तस्मै प्रदेयन्विह मात्रया तत् ।। व्याधिश्च कालच विभाव्य धीरेंद्रेव्याणि भोज्यानि च यानि तानि । सानुपानेषु परं वदन्ति मेध्यं यदम्भः शुचिभाजनस्थम्। लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाथ दृष्टाः। संक्षेप एषोऽभिहितोऽनुपानेष्वतः परं विनिश्चयः कृत इति शेषः, तथा च मद्यानाम्-“प्रायशोऽभिनवम्' इत्यादिना गुणदोषकथनं कृतमेव, एवं जलेऽपि “पिच्छिलं क्रिमिलम्' इत्यादिना ; गोरसकृतान्नाहारानुसंयोगिवर्गेषु तु यथोक्तकर्तृ गुणवत् विपरीते विपरीतगुणमनुमेयमिति भावः ॥६५॥
चक्रपाणिः-सम्प्रत्येषां यदनुपानं कर्त्तव्यं तदेवाह-यदेत्यादि। आहारगुणैरिति शीतं. स्नेहमधुरादिभिः, विपरीतमिति विपरीतगुणमनुपेयम् ; एवं दध्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य कालिकानुपानं स्यादित्याह-धातूनां यन्न विरोधि चेति ; एवज्ञाम्ले पयोऽनुपीयमानं विरुद्धत्वाद भातुविरोधेन प्रत्युक्तं भवति, एवमन्यदपि विरुद्धं बोद्धव्यम् ; समुद्दिष्टमिति यजः
For Private and Personal Use Only