________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१८ चरक-संहिता।
[अन्नपानविधिः व्यायामनित्याः स्त्रीनित्या मद्यनित्याश्च ये नराः। नित्यं मांसरसाहारा नातुराः स्युर्न दुव्वलाः ॥ ६४ ॥ क्रिमिवातातपहतं शुष्कं जीर्णमनात्तेवम् । शाकं निस्नेहसिद्धश्च वज्यं यच्चापरिखतम ॥ पुराणमामं संलिप्ट क्रिमिव्याडहिमातपैः । अदेशाकालजं क्लिन्नं जह्यात् फलमसाधु तत् । हरितानां यथा शाकं निर्देशः साधनादृते ॥६५॥
व्यायामेत्यादि । व्यायामनित्यादयो ये नरास्ते नित्यं मांसरसाहाराश्चेदभवन्ति तदा नातुराः न वा दुबलाः स्युः॥६४॥ ___ गङ्गाधरः-क्रिमीत्यादि । क्रिमिः कीटः, कीटवातातपहतादिकं शाकं वजन वज्जयेत्। खिन्नं निष्पीड़ितरसं बहुस्नेहं शाकं ग्राह्यम् । सुश्रुते च---पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात्। ककेशं परिजीणञ्च क्रिमिजुष्टमदेशजम्। वज्जयेत् पत्रशाकं तद् यदकालविरोहि च। खिन्नं निष्पीड़ितं शाकं हितं स्यात् स्नेहसंस्कृतम् । इति
पुराणमित्यादि। पुराणं बहुकालस्थितं फलमाममपक्कञ्च फलं संक्लिष्टं क्रिम्यादिभिः अदेशजमकालजञ्च फलं क्लिन्नं क्लेदीभूतं फलं जह्याद यथा पुमानसाधुजनं त्यजेत् । सुश्रुते च--फलेषु परिपक्क यद् गुणवत् तदुदाहतम् । विल्वादन्यत्र विज्ञ यमामं तद्धि गुणोत्तरम्। ग्राहुरण दीपनं तद्धि कषायकटुतिक्तकम्। व्याधितं क्रिमिजुष्टश्च पाकातीतमकालजम् । वर्जनीयं फलं सर्वमपर्यागतमेव च ॥इति । अपर्यागतमपरिणतमिति । हरितानामित्यादि। यथा शाकं वज्यमुक्तं तथा हरितानां वजने निदशः कार्यः साधनाइते
भरिवचनः, एतेन उन्मादादी मांसनिषेधो न विरोधवान् भवति, उक्त हि-उन्मादे "निवृत्तामिपमद्यो यः” इत्यादि । यथास्वमिति यस्य व्याधेर्यो चिहित इति, तादृशं रसम् ॥ ६ ॥
चक्रपाणि:-स्नेहेन विना सिद्धं निःस्नेहसिद्धम् । आमित्यपक्वम्, एतच्च विल्वादीन विहाय बोद्धव्यम् ; अदेशजमित्यनुचितदेशभवम्, अकालजमनातवम्। साधानात इति हरितानामाईकपलाण्डप्रभृतीनां निःस्नेहसिद्धानामपि तथा परिसूतानामपि निर्दोषत्वमित्यर्थः ।
For Private and Personal Use Only