________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः सूत्रस्थानम् ।
१०६५ तीक्ष्णोष्णो लघुरुक्षश्च क्लेदी पक्ता विदारणः । दहनो दीपनश्छेत्ता सव्वक्षारोऽग्निसन्निभः ॥ कारख्यः कुञ्चिकाजाजी-यमानीधान्यतुम्बुरु। रोचनं दीपनं वात-कफदोर्गन्ध्यनाशनम् ॥
आहारयोगिणां भक्ति-निश्चयो न तु विद्यते। पूर्यते द्वादशश्चायं वर्ग आहारयोगिणाम् ॥ ६२ ॥
इति द्वादश आहारयोगी वर्गः । १२ । , अशांसि च व्यपोहति । सुश्रते च---यवक्षारस्वर्जिकाक्षारपाकिमटङ्गणक्षाराः। गुल्माशीग्रहणीदोप-शकैराश्म रिनाशनाः। क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः स्मृताः। यो वह्निसमौ क्षारौ स्वज्जिकायावशूकजौ । शुक्रश्लेष्मविबन्धाझे. गुल्म-प्लीहविनाशनो॥ उष्णोऽनिलनः प्रक्लेदी ऊपक्षारो बलापहः। मेदोन्नः पाकिमः क्षारो मूत्रवास्तिविशोधनः॥ विरुक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदक्षणः। अग्निदीप्तिकरस्तीक्ष्णष्टङ्गणः क्षार उच्यते॥ इति। सन्वक्षारमुपसंहरति-तीक्ष्णोष्ण इत्यादि। सव्वक्षारो यो यो द्रव्यभस्मकृतः क्षारः सबै एव तीक्ष्णादिगुणः । दहनो दाहकरः । अग्निसन्निभ इति । कारवीत्यादि। कारवी कृष्णजीरकम्, कुचिका स्वल्पकृष्णजीरकम्। अजाजी जीरकम् । यमानी द्विविधा, धान्यं धन्याकं, तुम्बुरु धन्याकसदृशम्, रोचनादिगुणम् । आहारयोगिणां द्रव्याणां भक्तिनिश्चयो नास्ति युक्तितस्तूपयोजयेदिति भावः। मुश्रुते च-तीक्ष्णोष्णं कटक पाके रुच्यं पित्ताग्निवद्धनम्। कटु श्लेष्मानिलहरं गन्धा जीरकद्वयम् । कारवी करवी तद्वद विशे या सोपकुञ्जिका। भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता। आर्द्रा कुस्तुम्बुरी कुर्यात् स्वादुसौगन्धाहृयताम् । या शुष्का मधुरा पाके स्निग्या तृड्दाहनाशनी। दोपनी कटुका किञ्चित्-तिक्ता स्रोतोविशोधिनी। इति । वर्ग समापयति-पूयेत इत्यादि। आहारयोगिणामयं द्वादशवर्गः पूर्यते इति ॥६२ ॥
। इति द्वादश आहारयोगी वर्गः। १२ ।। भार इति स्वर्जिकाक्षारटङ्गणक्षारादिः। कारवी कृष्णजीरक, कुञ्चिका स्थूलजीरकम्, अआजी मूक्ष्मजीरकम्। उक्तात् तैलादेरन्यदप्याहारसंस्कारकत्वेनाहारयोगि भवतीत्याह-आहारेत्यादि । भक्तिर्विभाग इयत्तेति यावत्, किंवा, भक्तिरिच्छा, तेन पुरुपेच्छानामनियमादुक्तमपि किजित्
For Private and Personal Use Only