________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६४ चरक-संहिता
। अमपानविधिः तैपण्यादौष्ण्याद्वावायित्वाद् दीपनं शूलनाशनम् । ऊर्द्धश्चाधश्च वातानामानुलोभ्यकरं विडम् ॥ सतिक्तकटु सक्षारं तीक्ष्णमुत्वलेदि चौद्भिदम् । न काललवणे गन्धः सौवर्चलगुणाश्च ते ॥ सामुद्रकं समधुरं सतिक्तं कटु पांशुजम् । रोचनं लवणं सव्वं पाकि नस्यनिलापहम् ॥ ६१ ॥ हृत्पाण्डुग्रहणीरोग-प्लीहानाहगलग्रहान् ।
कासं कफजमशसि यावशूको व्यपोहति ॥ औष्ण्याल्लघुखाच्च सौगन्ध्याच रुचिप्रदम्। सुश्रुते च-लघु सौवर्चलं पाके वीग्योष्णं विशदं कटु। गुल्मशूलविबन्धनं हृद्य सुरभि रोचनम्। इति। तैष्ण्यादित्यादि। विडं नाम लवणं तैक्ष्ण्यादौष्ण्याद् व्यवायित्वाच दीपनबादिगुणम्। सुश्रुते च-सक्षार दीपनं रुक्षं शूलहद्रोगनाशनम् । रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम् ॥ सतिक्तेत्यादि । औद्भिदं नाम लवणं तीक्ष्णमुत्क्लेदि च । सुश्रुते च-लघु तीक्ष्णोष्णमुत्क्ले दि सूक्ष्मं वातानुलोमनम् । सतिक्तं कटु सक्षारं विद्यालवणमौद्भिदम् ॥ इति । न कालेत्यादि । सौवच्चेलस्य ये गुणास्ते तु गुणाः सर्वे काललवणे वत्तेन्ते न तु गन्धः, सौवच्चेलस्य यो गन्धः, स न काललवणे वत्तते इति। सामुद्रकमित्यादि। सामुद्रक करकचं नाम लवणं सतिक्तकं समधुरश्च। पांशुजञ्च लवणं सतिक्त कटु । सबलवणमुपसंहरति-रोचनमित्यादि। सर्वमुक्तमनुक्तञ्च लवणं रोचनं पाकि च स्रसि चानिलापहश्च । सुश्रुतेऽपराणि लवणान्युक्तानि । तद् यथा-- रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च। वातघ्नं लघु विष्यन्दि सुक्ष्म विड्भेदि मूत्रलम् । कफवातक्रिमिहरं लेखनं पित्तकोपनम्। दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् । उपसूतं वालुकेलं शैलमूलाकरोद्भवम् । लवणं कटुक छेदि विहितं कटु चोच्यते ॥ इति ॥६१॥
गङ्गाधरः-हृदित्यादि। यावशूको यवक्षारः हृद्ग्रहादीन् कफजं कासम् कारिकालवणम् । काललवणं सौवर्चलमेवागन्धं दक्षिणसमुद्रसमीपे भवतीति। सामुद्रं करकचम्, पांशुज पूर्वसमुद्रजम् ॥ ६१६१ ॥
चक्रपाणिः- क्षाराणामपि लवणरस् त्वात् क्षारगुणमाह- हृदित्यादि यवक्षारगुणः। सब
For Private and Personal Use Only