________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ अन्नपानविधिः
१०६६
चरक-संहिता। शुकधान्यं शमीधान्यं समातीतं प्रशस्यते। पुराणं प्रायशो रुवं प्रायेणाभिनवं गुरु ॥ यद् यदागच्छति क्षिप्र तत् तल्लघुतरं स्मृतम् । निस्तुषं युक्तिभृष्टश्च सूप्यं लघु विपच्यते ॥६३ ॥
गङ्गाधरः--अथैषां शूकधान्यादीनामवस्थाभेदेन गुणविशेषानाह-शुकधान्यमित्यादि । शुकधान्यं रक्तशाल्यादिकमुक्तं यत्, यच्च शमीधान्यं मुद्गादिकमुक्त तत् सर्व समातीतं संवत्सरातीतं प्रशस्यते। तत ऊर्द्ध द्विवर्षातीतं पुराणं शूकधान्यं शमीधान्यश्च प्रायशो रुक्ष शेषगुणकम्मे तु नातिवत्तते। प्रायेणाभिनवं षण्मासानतीतं शुकधान्यं शमीधान्यं गुरु वत्तते शेषगुणकम्मे तु वर्तत एव । सुश्रुते च-अनात्तेवं व्याधिहतमपागतमेव च। अभूमिजं नवश्चापि न धान्यं गुणवत् स्मृतम् ॥ नवं धान्यमभिष्यन्दि लघु संवत्सरोपितम् । विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥ इति। यदित्यादि। यद् यच्छुकधान्यं शमीधान्यश्च क्षिप्रमागच्छति जायते तत्तद्धान्यं लघुतरं स्मृतम्। सुश्रुते च-रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः। अदाहिनो दोषहरा बल्या मूत्रविवर्द्धनाः॥ शालयच्छिन्नरूढ़ा ये ये रूढ़ा बद्धवर्चसः। तिक्ताः कषायाः पित्तन्ना लघुपाकाः कफापहाः॥ इति । निस्तुषमित्यादि । सूप्यं सूपयोनि मुद्गादिकं युक्तितो भृष्टं निस्तुषं पक्वं लघु शीघ्र विपच्यते। सश्रुते चसुखिनो निस्तुषो भृष्ट ईषत्स्पो लघुहितः । इति ॥६३ ॥
प्राय आहारयोगि न भवति, तथा अनुक्तमपि रसोनाम्रपेषिकाद्याहारसंयोगि भवतीत्युक्त भवति ॥ ६२॥
इत्याहारयोगी वर्गः । १२ । चक्रपाणिः-सम्प्रत्युक्तानां शूकधान्यादीनां यदनुक्तगुणं तद् वक्त माह-शूकधान्यमित्यादि।-समातीतमित्येकवर्षातीतम्, प्रशस्यत इति लाघवात् हेमन्ते नवधान्यविधानन्त्वप. पादः। भागच्छति क्षिप्रमिति उप्तं सत् शीघ्रं भवति ; तेन पष्ठिकाः सर्वधान्येषु लघवः, ते हि षष्टिरात्रेण भवन्ति ; अस्मिंश्च व्याख्याने, बीहेः शारदस्य च हैमन्तं शालिं प्रत्यल्पकालत्वेन लघुत्वं प्राप्नोति, तस्मात् सजातीय एव शीघ्रागमनं लाघवहेतुरिति वाच्यम् ; किंवा, आगच्छति भिप्रमिति भुक्तं सत् क्षिप्रपच्यते। युक्तिभृष्टमीषदभृष्टमिति यावत्। सूप्यं सूपाय योग्य मुगमाषाहि ॥ ६३ ॥
For Private and Personal Use Only