________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः ।
सूत्रस्थानम् ।
१०८६ कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि,च। पित्तलं बद्धविण्मूत्र न च श्लेष्माभिवद्धनम् ॥ वातघ्नमुत्तमं बल्यं त्वच्यं मेधाग्निवर्द्धनम् । तैलं संयोगसंस्कारात् सर्वरोगापहं मतम् ॥ तैलप्रयोगादजरा निर्विकारा जितश्रमाः।
आसन्नतिबलाः संख्ये दैत्याधिपतयः पुरा ॥ ५७॥ भवति तत् सव्वं रोचनं लघु च। सुश्रुते च-शिण्डाकी गुरुरुक्तात्र तु लघुः । तेन नातिगुरु तिलघुरिति विद्यात् । वर्ग समापयति-विद्यादित्यादि । इमं कृतान्नानां वर्गमेकादशं भिषग विद्यात् ॥५६॥
इत्येकादशः कृतान्नवर्गः।११।। गङ्गाधरः-अथ क्रमिकखादाहारयोगिकवर्गमाह-तत्र संस्कारे तैलस्य प्राधान्यादादावाह गुणकर्माणि। कपायत्यादि। तैलं तिलप्रभास्नहः । कषायानुरस व्यवायीति व्यवायी दहमखिलं व्याप्य पाकाय कल्पते। स च काय्यगुणस्तीक्ष्णगुणसम्भूतो नातिरिक्तः। संयोगसंस्कारादिति। तैलस्याभ्यवहाय्यद्रव्येण संयोगः, संस्कारो भेषनद्रव्येण पाकादितो गुणान्तराधानम् । ततः सव्वरोगापहं तैलं मतम् ।
तत्र पुरावृत्तमाह-तैलेत्यादि। बहवो दैत्याधिपतयः पुरा तैलप्रयोगात तैलाभ्यङ्गादितः अजरादयो भूत्वा सङ्घ युद्धेऽतिबला आसन्। सुश्रुते चतैलन्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं वृंहणं प्रीणनं व्यवायि सूक्ष्म विशदं गुरु सरं विकाशि वृष्यं खासादनं मेधामादेवमांसस्थैय्यवर्णवलकर चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलाशक्षयकर क्रिमिघ्रमशीतपित्तजननं योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनश्च। तथा च्छिन्नभिन्न-विद्धोत्पिष्टच्युतमथित-क्षतपिच्चितभग्नस्फुटित-क्षाराग्निदग्धविश्लिष्टशिण्डाकी स्वनामप्रसिद्धा तीरभुक्तौ। आसुतञ्चान्यदिति सन्धानान्तरं ; कालाम्लमिति चिरकालावस्थानादम्लं न त्वम्लद्रव्यसंयोगात् । कृतान्नानामिति करणनिष्पादितमण्डपेयादीनाम् ॥५६॥
इति कृतानवर्गः।११।। चक्रपाणिः-आहारमभिधाय तयोगिद्रव्यमुच्यते । तत्र सर्पिष उक्तत्वात् तैलमेवासम्मसंस्कारप्रधानत्वादाह-कषायेत्यादि। संयोगाच्च संस्काराच्चेति संयोगसंस्कारात्, संस्कारः
For Private and Personal Use Only