________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। अन्नपानविधि:
चरक-संहिता। एरण्डतैलं मधुरं गुरु श्लेष्माभिवर्द्धनम् । वातास्मृगगुल्महृद्रोग-जीर्णज्वरहर परम् ॥ कटूष्णं सार्षपं तैलं रक्तपित्तप्रदूषणम् । कफशुक्रानिलहरं कण्डूकुष्ठविनाशनम् * ॥ आतस्यं मधुराम्लन्तु विपाके कटुकं तथा। उष्णवीयं हितं वाते रक्तपित्तप्रकोपणम् ॥ कुसुम्भतैलमुष्णञ्च विपाके कटुकं गुरु ।
विदाहि च विशेषेण सव्वेरोगप्रकोपणम् ॥ दारिताभिहतदुर्भु नमृगव्यालविदष्टप्रभृतिषु च परिषकाभ्यगावगाहेषु तिलतैलं प्रशस्यते। तद्वस्तिषु च पाने च नस्ये कर्णाक्षिपूरणे। अन्नपानविधी चापि प्रयोज्यं वातशान्तये ॥ इति । एरण्डतैलमित्यादि । सुश्रुते च-एरण्डतैलं मधुरमुष्णं तीक्ष्ण दीपनं कटुकपायानुरसं सूक्ष्मं स्रोतोविशोधनं खच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोपहरश्च । इति । कटूष्णमित्यादि । कण्डूकुष्ठविनाशनमिति प्रमावात्। सुश्रुते च-निम्बातसीकुसुम्भमूलकजीमूतकक्षककृतवेषनार्ककम्पिल्लकहस्तिकर्ण-पृथ्वीकापीलुकरजेङ्गुदीशिगु सर्पपसुवर्चल विडङ्गज्योतिप्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफक्रिमिकुष्ठप्रमेहशिरोरोगहराणि चेति । क्रिमिन्न सापपं तैलं कण्डूकुष्ठापहं लघु । कफमेदोऽनिलहरं लेखनं कटु दीपनम् ॥ इति । __ आतस्यमित्यादि। अतसीभवमातस्यं तैलमित्यनुवर्तते। सुश्रुते चवातघ्न मधुरं तेषु क्षौमं तैलं बलावहम् । कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरु पित्तलम् ॥ इति । कुसुम्भेत्यादि। कुसुम्भवीजस्य तैलं विशेषण सर्वरोग. प्रकोपणमिति प्रभावात् । सुश्रुते च-विषाके कटुकं तैलं कौसुम्भं सव्वंदोषकृत् । रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च॥ क्रिमिनमी दीतैलमीपत्तिक्त तैलस्य भेषजैः पाकः, संयोगस्त्ववचारणायां ज्ञेयः। संज्ये युद्धे । आतस्य उमातैलम् ।
+ कन्डूकोठनिवारणम् इति पाठान्तरम् ।
For Private and Personal Use Only