________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८८ चरक-संहिता।
अन्नपानविधि: आत्रामलकलेहाश्च वहणा बलवर्द्धनाः। रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्यगौरवात् ॥ बुद्धा संयोगसंस्कारान् द्रव्यमानञ्च तत् स्मृतम् । गुणकर्माणि लेहानां तेषां तेषां तथा वदेत् ॥ ५५ ॥ रक्तपित्तकफोत्क्लेदि शुक्त वातानुलोमनम् । कन्दमूलफलायञ्च तद्वद विद्यात् तदासुतम् ॥ शिण्ड की चासुतश्चान्यत् कालाम्लं रोचनं लघु । विद्याद वगं कृतान्नानामेकादशमिमं भिषक ॥ ५६ ॥
इति कृतान्नवर्गः।११।। सितारुचकसिद्धार्थः सहक्षाम्लपरूषकैः। जम्बू कलरमैयुक्तो रागो राजिकयान्वितः ।। इति । पाडवस्तु मधुराम्लद्रव्यकृत इति कश्चिन्, तन्न। रागशब्देन रागपाडवस्य अभिधानात् । आम्रत्यादि । आम्रामलकलेहाश्चेत्यादि । आम्रामलकयोः पृथक, स्वरसेन सशक रेण घनाः क्रियन्ते ये ते तल्लेहाः। स्नेहमाधुय्यंगौरवात् हणादिगुणा इति । बुद्धं त्यादि । लेहानां तेषां तेषां द्रव्याणां संयोगसंस्कारान् प्रत्येक बुद्धा मानश्च तत् स्मृतं कृता यथा गुणकर्माणि तथा गुणकर्माण्यादिशेत् ॥ ५५ ॥ ___ गङ्गाधरः-रक्तपित्तेत्यादि । शुक्तं नाम चुक्रं सन्धानविशेषः। यन्मस्वादि शुचौ भाण्डे सगुड़क्षौद्रकाजिकम्। धान्यराशो त्रिरात्रस्थं शुक्तं चक्रं तदुच्यते ।। इति । कन्देत्यादि। यत कन्दं यन्मूलं यत फलं यच्च पुष्पादिकं यदगुणं तदासुतं तत्कन्दादिकृतासवं तद्वत् तद्गुणं विद्यात् । शिण्डाकीत्यादि। शिण्डाकी स्वनामख्याता। अन्यच्चासुतं यत् किञ्चनकालाम्लं कालेन जातरसमम्लं रागपाइवं केचिदेवं वदन्ति “कथितन्तु गुड़ोपेतं सहकारफलं नवम् । तैलनागरसंयुक्त विज्ञेयो रागपाड़वः ॥ इति ; किंचा, "सितारुचकसिद्धार्थः सवृक्षाम्लपरूषकैः। जम्बूफल रसयुक्तो रागो राजिकयान्वितः ॥ पाडवस्तु मधुराम्लद्रव्यकृतः । आम्रामलकलेहास्तु तयोः पृथक क्वाथेन सशर्करेण वनाः क्रियन्ते । अनुक्तपानकगुणातिदेशार्थम् आह-बुद्धत्यादि । --अस्य "द्रव्यसंयोग" इत्यादिवद् व्याख्यानम् ॥ ५४॥५५ ।।
चक्रपाणिः -शुक्तलक्षणम्,-"यन्मस्त्वादि शुचौ भाण्डे सगुनौद्रकाञ्जिकम्। धान्यराशौ त्रिरात्रस्थं शुक्र चकं तदुच्यते ॥” तदास्तमिति शुममध्यस्थितं मूलककुष्माण्डादि ।
For Private and Personal Use Only