________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
१०८३ हन्याद-व्याधीन् यवापूपो यावको वाट्य एव च। उदावत्तप्रतिश्याय-कासमेहगलग्रहान् ॥ धानासंज्ञाश्च ये भक्ष्याः प्रायस्ते लेखनात्मकाः । शुष्कत्वात् तर्षणाश्चैव विष्टम्भित्वाञ्च दुजराः ॥ विरूढ़धानाः शकुल्यो मधुक्रोड़ाः सपिण्डकाः ।
पूपाः पूपलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥ हन्यादित्यादि। यवापूपो यवकृतोऽपूपः, यावको यवकृतो मण्डः, वाख्यो भृष्टयवमण्डः, उदावर्तादीन व्याधीन हन्यात्। सुश्रुते च-उदावतहरो वाट्यः कासपीनसमेहनुत् । इति। धानेत्यादि। धाना भृष्टयवस्तत्कृता ये भक्ष्या लेखनात्मका ईपद्विदरणस्वभावाः। शुष्कलात् तर्पणाप्तृष्णाजननाः। सश्रुते च--- धानोल तास्त लघवः कफमेदोविशोपणाः। इति । विरूदधानेत्यादि। विरूढ़ा अङ्क रिता यवा भृष्टा विरूदधानाः । शकुल्यः प्रसिद्धाः पिष्टपिण्डगर्भ तिलकल्कादिकं दत्त्वा वेष्टयित्वा पकाः। सपिण्डका मधुकोड़ा गोधूमपिण्डमध्ये मधु पूरयित्वा घृते पकाः सपिण्डका मधुक्रोड़ाः। पूपा माषादिपिष्टकृता वटकाः। पूपलिका तु -विमृद्य समिताचूर्ण मृदुपाकं गुड़ान्वितम् । घृतावगाहे गुड़िका पका भाण्डे सशकरे। क्षिपेत् सौगन्धिवासाञ्च कुर्य्यात् पूपलिकां बुधः ॥ इति । एपा संयावश्चोच्यते। समिता. मम्बुदुग्धेन मद्देयिखा सुशोभनाम्। पचेद घृते क्षिपेत् खण्डान्विते भाण्डे नवे च ताम्। संयावोऽसौ युतश्चूर्णस्वगेलामरिचा कैः ॥ इति। आद्यशब्देन घृतपूरादीनां ग्रहणम् । तदुक्तं सुश्रुते-भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धयः । अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः। तेषां प्राणकरा हृया घृतपूराः कफावहाः। वातपित्तहरा वृष्या गुरवो रक्तमांसलाः। मदिता तदात्वेनैव वाजीकरणवद् बलकराः, एतेन, परिणामेन बलापहत्वमप्युक्त भवति। यवकृतो वाटयो यावको वाटयः, वाट्यो भृश्यवौदनः। धाना भृष्टयवाः अङ्कुरितस्य यवस्य धाना विरूढधानाः। शप्कुल्यः शालिपिठाः सतिलास्तैलपक्काः क्रियन्ते। मधुक्रोड़ाः पाकघनीभूतमधुगर्भाः। सपिण्डका इति मधुक्रोडा एव सपिटकपिण्डाः, अतस्त्वाह"विम समिताचूर्ण मृदुपाकं गुड़ान्वितम्। घृतावगाहे गुड़िका वृतां पक्का सकेशराम् । सौगन्धिकाधिवासाञ्ज कुर्यात् पूपलिकां बुधः। स एव खण्डसंयावः सिताम्रातकपूरितः ।
For Private and Personal Use Only