________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ अन्नपानविधिः
१०८०
चरक-संहिता। तद्वन्माषतिलक्षीर-मुदगसंयोगसाधिताः । कुल्माषा गुरवो रुक्षा वातला भिन्नवर्चसः ॥ खिन्नभक्ष्यास्तु ये केचित् सौप्यगोधूमयावकाः । भिषक तेषां यथाद्रव्यमादिशेद गुरु लाघवम् ॥ अकृतं कृतयुषश्च तनु संस्कारितं रसम्। सूपमम्लमनम्लञ्च गुरु विद्यात् यथोत्तरम् ॥ ५१॥ तद्वदित्यादि। मापादिभिव्यस्तैः समस्तैर्वा सह संयोगात् साधिता ओदनास्तद्वद्धल्याः सन्तपणा हृद्या गुरवो हयन्ति च। कुल्माषा माषविदलसहिततण्डुलाः पका ओदना गुरवो रुक्षा बातला भिन्नवच्चेसश्च । सुश्रुते चधोतस्तु विमलः शुद्धो मनोशः सुरभिः समः । स्विन्नः सुप्रस्र तस्तूष्णो विशद. स्वोदनो लघुः । अघौतोऽप्रा तोऽस्विन्नः शीतश्चाप्योदनो गुरुः । लघुः सुगन्धिः कफहा विज्ञ यो भृष्टतण्डुलः । स्नेहैमांसः फलैः कन्दै वदलाम्लैश्च संयुताः । गुरवो
हणा वल्या ये च क्षीरोपसाधिताः । विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः । कफपित्तकरी बल्या कुशरानिलनाशिनी। स्विन्नेत्यादि । सूप्या मुद्गमापादयः गोधमाश्च यवाश्च स्विन्नाः पुनर्ये भक्ष्याः क्रियन्ते ने सौप्या गोधमा यावका भक्ष्यास्तेषां यथाद्रव्यं गुरु लाघवं भिषग्बुद्धादिशेत् । अथ मूपमाह-अकृतमित्यादि । सस्नेहलवणं सव्येमकृतं कटुकै विना। लवणस्नेहकटुकैः संस्कृतं कृतमुच्यते। चतुद्देशगुणे तोये अष्टादशगुणेऽथवा। ईषदभृष्टन्तु विदलं पक्त्वा यूषोऽद्धशेषितः। पादशिष्टो भवेत् मूपः साम्लोऽनम्लश्च स द्विधा। तत्र पुनरकृतं यूपं कृतयपं तनु च संस्कारितञ्च मांसरसं साम्लं सूपमनम्लं सूपश्च यथोत्तरं गुरु विद्यात् । सुश्रुते च-सुस्विन्नो निस्तुषो भृष्ट ईषतम्पो लघुहितः। इति । मांसरसश्च त्रिविधः। तनुतरस्तनुः सान्द्रश्च । तदुक्त-पलानि द्वादशमस्थे घनेऽथ तनुके च पट्। मांसस्य बटकं कुर्यात् पलमच्छतरे रसे॥ सुश्रुते तु-मांसं स्वभावतो वृष्यं स्नेहनं वलवर्द्धनम् । स्नेहगोरसधान्याम्ल-फलाम्लकटुकः सह । सिद्धं मांसं हितं बल्यं रोचनं वृहणं गुरु। तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम्। विद्यात् पित्तमीपस्विन्नमपूपीकृतं कुल्मापमाहुः। स्विन्नभक्ष्या इत्युत्स्वेदेन भक्ष्यकृता हण्डरिकादयः । यथाद्रव्यमिति वदन्नन्यन्न प्रकृतिगुणोपमहनलाजादाविव न गुणान्तरोदय इति दर्शयति ;
For Private and Personal Use Only