________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः
सूत्रस्थानम् ।
१०७६ सुधौतः प्रतः स्विन्नः सन्तप्तश्चौदनो लघुः ॥ भृष्टतण्डुलमिच्छन्ति गरश्लेष्मामयेष्वपि । अधौतोऽप्रस्तु तोऽस्विन्नः शीतश्चाप्योदनो गुरुः ॥ ५० ॥ मांसशाकवसातैल-घृतमजफलौदनाः । बल्याः सन्तर्पणा हृद्या गुरवो वृहयन्ति च ॥
नागरायुतः। इति । तथा सिक्थैविरहितो मण्डः पेया सिक्थसमन्विता । विलेपी बहुसिक्था स्याद यवागृविरलद्रवा। इति । यवाणः सिक्थैविरहितो मण्डः, सिक्थसमन्विता यवागः पेया, बहुसिक्था विरलद्रवा यवागूविलेपीति त्रिथैव यवागून तु मण्डादिभ्योऽतिरिक्ता यवागूः पृथकतद्गुणवचनाभावात् । इति । यवा गमुक्त्वा ओदनमाह-सुधौत इत्यादि । सुधौततण्डुलः पकः स्विनः प्रस्र तो निःशेषेण गालितमण्डः सन्तप्तः सुतप्त ओदनो नाम लघुभवति। भृष्टतण्डुलकृतमोदन गरादिष्विच्छन्ति। अधौततःडुलकृत ओदनो गुरुः। धौततण्डुलकृतोऽप्योदनोऽप्रस्र तश्चेत् तदा गुरुः स्यात्, धौततण्डुल. कृतो निःशेषेण प्रस्र तोऽपि चेदखिन्नः स्यात् तदा गुरुः स्यादेवं धौततण्डुलकृतः प्रत्र तश्च स स्विन्नश्च सन्नपि शीतश्चेद्भवति तदा गुरुः स्यादिति ॥५०॥
गङ्गाधरः-अस्यौदनस्याभ्यवहारे तूपकरणैः सह गुणमाह-मांसेत्यादि । मांसादिसहिता ओदना वल्या इत्यादिगुणाः। सुश्रु तेऽपि, “लाजमन्डो विशुद्धानाम्" इत्यकरोत्. विशेषादीषच्छुद्धानामिति बोध्यम् ; तन्न सत्, ईषविशुद्ध पेयो निषिद्धव, व वनं हि-“कफपित्ते विशुद्धेऽल्पे मद्यपे वातपैत्तिके। तपंणादिक्रमः कार्यः पेयाभिष्यन्दयेद्वितान्"।
खिन्न इत्युम्बिन्नधान्यतण्डुलकृतः, किंवा, सम्यस्विन्न त्वेन मृदूभूतः, सन्तप्त इति सहजेनोष्मणा, न तु पुनस्तापनेन, वचनं हि-"विवर्जयेत् स्थिरं शीतमन्नमुष्णीकृतं पुनः" इति। भृश्तण्डुलकृतमोदनं भृष्टतण्डुलम्। अधौतोऽधौततण्डुलकृतः। अत्र सुधौतत्वादिगुणविशिष्टस्यौदनस्य लघुत्ववचनेन तद्विपरीतानामधौतादीनां गुरुत्वमर्थतः सिद्धमपि यत् पुनरुच्यते, तत् स्पार्थम् ॥ ५० ॥
चक्रपाणिः-सन्तर्पणा इति तदात्वेऽपि बरकरा मांसादिसंयोगसाधिताश्च ओदना एवं बोध्या:; अत्र रुक्षाभ्यां शाकमुकुटकाभ्यामपि संयुक्तस्यौदनस्य बल्यत्वादि संयोगमहिम्ना तथा घृतादिसंस्काराच्च लोकव्यवहारक्रियमाणस्वाद् बोद्धव्यम् । यवपिष्टमुष्णोदकसिक्तः
For Private and Personal Use Only