________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०७८ चरक-संहिता।
[अन्नपानविधि: मृद्करोति स्त्रोतांसि स्वेदं संजनयत्यपि । लहितानां विरिक्तानां जीर्ण स्नेहे च तृष्यताम् ॥ दीपनत्वाल्लधुत्वाच मण्डः स्यात् प्राणधारणः । तृष्णातिसारशमनो धातुसाम्यकरः शिवः ।। लाजमण्डोऽग्निजननो दाहमू निवारणः । मन्दाग्निविषमानीनां बालस्थविर योषिताम् । देयः रयात् सुकुमाराणां लाजमण्डः सुसंस्कृतः । चुत्पिपासापहः * पथ्यः शुद्धानान्तु मलापहः ॥
शृतः पिप्पलिशुण्ठीभ्यां युक्तो लाजोऽम्लदाडिमः। + दीपयतीत्यादिका लवितादीनां दीपनखादिधम्मेण प्राणधारणः। एवं तृष्णातिसारशमनः धातुसाम्यकरः शिवश्च । सुश्रुते च हृद्यः सन्तर्पणो दृष्यो. हहणो बलवर्द्धनः। मण्डस्तृष्णातिसारघ्नो धातुसाम्यकरः स्मृतः। शाकमांसफलयुक्ता यवाग्वस्ताश्च दुजराः। इति । यवाग्वस्ताः पेयाविलेपीमाडात्मिकाः । इति । लाजमण्ड इत्यादि । अग्निजननादिगुणो लाजमण्डो मन्दानग्रादीनां देयः स्यात्। सुकुमाराणान्तु सुसंस्कृतो लाजमण्डो दयः स्यात् । शुद्धानान्तु वमनविरेचनादिना शुद्धकोष्टानां क्षुत्पिपासापहः पथ्यो भवति। पिप्पली. शुण्ठीभ्यां शृतो लाजः पुनरम्लदाडिमैयुक्तो मलापहः स्यादिति। सुश्रते च-लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीवाच्य इति, यतः, पेयादयो हि प्रकृतिगुणानुविधायिनः सन्तः स्वगुणमावहन्ति, तेन कृतान्नस्य गुण उच्यते, स यदि रक्तशाल्यादिप्रकृतावपि भवति, तदा बलवान् भवति, अथ प्रकृती विपरीतो गुणो भवति, तदा कृतान्नगुणस्यालगत्वं भवतीति मन्तव्यम्। अत्र खस्थातुरहित. त्वेनादौ पेयोच्यते; पेया बहुद्रवा यवागृः, विलेपी विरल द्रवा यवागृः। पेयादिक्रमेणान्ने वक्तव्ये प्रथमोत्पद्यमानत्वेन मण्डगुणकथनम् ; दीपनलघुत्वाभ्यामग्निं यस्मात् करोति, तस्माल्लवितादीनां प्राणधारण इति ज्ञेयम, सुसंस्कृत इति धन्याकपिप्पल्यादिसुसंस्कृतः ; शुद्धानां मलापह इति सम्यक. शुद्धानामपि कोष्ठोपलेपकदोषापहरत्वेन, यदुच्यते-- शुद्धानामिति ईपच्छुद्धानाम्; तेन ईषच्छुद्धा शेषदोषसम्बन्धान्मलापह इत्युपपन्नम्, तथा
• क्षुत्पिपासासह इति चक्रोक्तः पाठः । + मण्डः सन्दीपयत्यग्नि वातं चाप्यनुलोमयेत् इत्यधिकः पाठः क्वचित् दृश्यते ।
For Private and Personal Use Only