________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
१०७७ क्षुत्तष्णाग्लानिदौलत्य-कुनिरोगज्वरापहा । स्वेदाग्निजननी पेया वातवर्णोऽनुलोमनी॥ तर्पणी ग्राहिणी लध्वी हृद्या चापि विलेपिका ।
मण्डस्तु दीपयत्यानि वातञ्चाप्यनुलोमयेत् ॥ प्राय इनुविकारः प्रायो यत्र वग स इक्षुविकारप्रायोऽयं दशमो वर्गो मत इति ॥४९॥
इति दशम इक्षुविकारको वर्गः ॥ १० ॥ गङ्गाधरः-अथाहारार्थ शुकधान्यादीनि द्रव्याणि गुणतः कर्मतश्चोक्त्वा शूकधान्यादीनि यथाकृतान्यन्नानि यद्गुणानि भवन्ति, तथाकृतानामन्नानां गुणकर्माणि वक्त कृतान्नवर्गमारभते। तत्रातुरहितवादादौ द्विविधेष्वन्नेषु यवाग्वोदनभेदेन भिन्नेषु यवागुणानाह ; त्रिविधा खलु यवागूभवति पेयाविलेपी-मण्ड भेदात् । यवागृमुचिताद् भक्ताच्चतुर्भागकृतां वदेत् । यवागूस्त्रिविधा शे या द्रवसिक्थसमन्विता। सिक्थकै रहितो मण्डः पेया सिकथसमन्विता। यवागूबेहुसिक्था तु विलेपी विरलद्रवा। अन्नं पञ्चगुणे साध्य विलेपी च चतगुणे। मण्डश्चतुर्दशगुणे यवाः षड़गुणेऽम्भसि । इति प्रसिद्धखात् तत्रादौ पेयागुणमाह--क्षुत्तृष्णेत्यादि। पेया नाम यवाः क्षुदाद्यपहा स्वेदाग्निजननी वातवच्चोऽनुलोमनी च। सुश्रुते चस्वेदाग्निजननी लध्वी दीपनी वस्तिशोश्नी। क्षुत्तुदश्रमग्लानिहरी पेया वातानुलोमनी ॥ इति । तपेणीत्यादि। विलेपिका नाम यवागः तपेणीत्यादिगुणा। सुश्रु ते च-विलेपी तपेणी हृया ग्राहिणी बलवद्धिनी। वृष्या स्वादुरसा लध्वी दीपनी क्षुत्तृषापहा ॥ इति । मण्डस्वित्यादि। मण्डोऽग्निं ऽपि मधु रुक्षकपायाभ्यां द्वाभ्यामेवाविर्भूतं स्यात्, प्रायेण रुक्षकषायगुणाधिकानामेव मधु. मक्षिकाणाञ्च करणादिति बोद्धव्यम ; अनेन न्यायेन, नानाव्यात्मकरवेन सर्वगुणता मधुनो निरस्ता भवति ; सुश्रुतेऽप्येवमेव योगवाहित्वं "तच्च नाना' इत्यादिना ग्रन्थेन मधुन उक्तम् । इक्षुविकृतिप्राय इति इक्षुविकृतिप्रधानः, तेन, यासशर्करादिकथनमप्यत्राविरुद्धमिति भावः ॥४९॥
[इतीक्षुवर्गः । १०।चक्रपाणिः-सम्प्रति शूकधान्यादिवगैर्यथासम्भवं सम्पादितस्य कृतान्नस्य पेयादेगुणान् वक्त कृतान्नवर्ग उच्यते ; ते च पेयादीनां गुणाः केचित् संस्कारसंयोगादिजाः, केचित् प्राकृता अपि ज्ञेयाः ; न च वाच्यम् -पेयादीनामेव गुणेन बाधितत्वात् शूकधान्यादीनां पृथगगुणो न
For Private and Personal Use Only