________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। अन्नपानविधिः
चरक-संहिता। नातः कष्टतमं किञ्चिन्मध्वामं तद्धि मानवम् । उपक्रमविरोधित्वात् सद्यो हन्याद् यथा विषम् ॥ नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु । । इतीक्षुविकृतिप्रायो बगोऽयं दशमो मतः ॥ ४६॥
इतीक्षुवर्गः।१०। नात इत्यादि। आममपक मधु यथा कष्टतममतः कटतमं न किञ्चिदाममस्ति। कस्मात ? तद्वीत्यादि। हि यस्मात् तदामं मधु उपक्रमविरोधिखात् सद्यो यथा विषं हन्ति तथा सद्यो मानवं हन्ति । सर्वं ह्याममुष्णभेषजसाध्यं मधुनि तु तदुष्ण विरुद्धं नोपयोक्त युज्यते इत्यत उपक्रमे चिकित्सारम्भे खाममधु पीतवत उष्णक्रिया विरुद्धा भवतीत्युपक्रम विरुद्धखम्। आमन्तु मधु तदुच्यते यन्मधुकोषेऽल्पकालमारव्यमम्लं भवति भूरिकालेन परिणतन्तु कषायानुमधुरं पकमुच्यते। तथाविधन्तु कोषाद ग्रहणकाले परीक्षितव्यं कालान्तरे खम्लखेनामखाभावात् । उक्तञ्च सुश्रते-दोषत्रयहरं पकमाममम्लं त्रिदोषकृत । मध्यामात् परतस्त्वन्यदामं कष्टं न विद्यते। विरुद्धोपक्रमखात् तत् सर्व हन्ति यथा विषम् ॥ इति । इहाममम्लमिति वचनेन तदभ्रान्त. व्याख्यानं विज्ञायते येनोच्यतेऽग्निसम्पर्कण पक मधु पक्कमन्यदाममिति, मधुनश्चोष्णविरोधिखाच्च।
मधुनो योगवाहिलमाह-नानेत्यादि। मधु योगवाहि, येन सह युज्यते तदगुणमावहति। कस्मात ? नानाद्रव्यात्मकखादिति। सुश्रुते चोक्तम्तद युक्तं विविधैर्योगैनिहन्यादामयान् बहून् । नानाद्रव्यात्मकखाच्च योग वाहि परं मधु ॥ इति । वर्ग समापयति-इतीत्यादि। इति एप इक्षुविकृति
मध्वामस्य महात्ययतामाह-नात इत्यादि। उपक्रमविरोधित्वं मध्वामे यथाआमे तूष्णं पथ्यं, तन्मधुनो विरुद्ध म्, यत् तु मधुहितं शीतम्, तदामे विरुद्धम। मधुनो योगवाहित्वमाह-नानेत्यादि। यस्मान्नानारसादिवीर्यदिभ्यः पुष्पेभ्य उत्पन्नं तन्मधु, तेन अनभिव्यक्तनानाशक्तिकमेव ; ततश्च, येन द्रव्येण वामनीयेनास्थापनीयेन वा वृष्येण कार्यान्तरकारकेण वा युज्यते, तस्यैव कम्मै करोति समानानुकारिद्रव्यप्रबोधितशक्तित्वादिति भावः ; चकारोऽत्र हेत्वन्तरसमुच्चये, तेन प्रभावाच्चेति बोद्धव्यम् ; तेन, सत्यपि नानौषधिसम्भवस्वे प्रभावात् न क्षीरमद्यादयो योगवाहिनः, तथा, अनानात्मका अपि शिलाजतुतैलादयो योगवाहिनो भवन्ति ; योगवाहित्वेऽपि मधु स्नेहने न प्रयुज्यते, वाते रक्षादिगुणयुक्तत्वात् ; नानाद्रव्यात्मकत्वे
For Private and Personal Use Only