________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः सूत्रस्थानम् ।
१०७५ हन्यान्मधूष्णमुष्णा-मथवा सविषान्वयात् ।
गुरुरुक्षकषायवाच्छैत्याचाल्पहितं मधु ॥ शेयं शीतलं लघु लेखनम्। तस्माल्लघुतरं रुक्षं माक्षिकं प्रवरं स्मृतम् । श्वासादिषु च रोगेष प्रशस्तं तद विशेषतः। स्वादुपाक गुरु हिमं पिच्छिलं रक्तपित्तजित् । श्वित्रमेहक्रिमिहरं विद्याच्छात्रं गुणोत्तरम् । आघं मध्वतिचक्षुष्यं कफपित्तहरं परम् । कषायं कटु पाके च बल्यं तिक्तमवातकृत् । औदालकं रुचिकर स्वयं कुष्ठविषापहम् । कषायमुष्णमम्लञ्च पित्तकृत् कटुपाकि च। छद्दिमेहप्रशमनं मधु रुक्षं दलोद्भवम् । इति । अन्यत्र चोक्तम्-कीत्ताते तन्मधु च्छात्रं वरटीच्छत्रसम्भवम् । तपोवने जरत्कारोराध्यं मधु तरूद्भवम् । ओदालकन्तु वल्मीक-कीटकारिविनिर्मितम्। दालमित्यभिनिद्दिष्टं वृक्षकोटरकीटजम् । इति । अथ मधूपयोगानहेमाह-हन्यादित्यादि। मधु शीतवीर्यमपि सविषान्वयात् सविषप्राणिसम्भूतलादुष्णविरोधि प्रकृत्यैवोष्ण पुरुषमथवा स्वेदातपादिभिरुष्णात्तं पुरुषं सेवमानं हन्यात् । उष्णोष्णार्ताभ्याम् अन्यत्र पुरुषे तु मधु गुरुवादिखात् शैत्याचाल्पहितं भवति। सुश्रुते च-तत् तु नानाद्रव्यरसगुणवीय्यविपाकविरुद्धानां पुष्परसानां सविपमक्षिकासम्भवखाच्चानुष्णोपचारम् । उष्णविरुध्यते सर्व विषान्वयतया मधु । उष्णात्तेमुष्णरुष्णे वा तनिहन्ति यथा विपम् । तत् सौकुमार्याच्च तथैव शैत्यानानौषधीनां रससम्भवाच्च । उष्णविरुध्येत विशेषतश्च तथान्तरीक्षेण जलेन चापि ।। उष्णेन मधु संयुक्तं वमनेष्ववचारितम् । अपाकादनवस्थानान विरुध्येत पूर्ववत्॥ इति । केचित् 'माक्षिकं तैलवर्ण स्याद्' इत्यादि श्लोकं पठन्ति। उष्णा-मथवेति भाषया यथा उष्णं 'मधु हन्यात्, न तथा उष्णातमिति सूचयति ; तत्रैव हेतुमाह-सविषान्वयादिति, सविषप्रायाणि नानापुष्पाणि, किंवा, सविपा एव मक्षिकादयोऽन्वया उत्पत्तिस्थानानि यस्य तत् सविपान्वयं मधु, तेन, सविषान्वयाद् विपानुगतस्योष्णविरोधित्वस्यैव मधुनोऽनुगमो भवति, न तु सविषत्वस्य ; तथा सत्युष्गमपि मारकं स्यात्, किंवा, “अथवा इति सविषान्वयादित्यनेन सम्बध्यते, तेन, सविषान्वयादन्यतश्च शैत्यात् सौकुमार्याच्च उष्णेन गधु विरुध्यत इत्यर्थो भवति, उक्त हि हारीते–'नानापुष्पप्रकाराणां रससारात्मकं मधु। तच्छेत्यात् सौकुमार्याच्च सर्वैरुष्णैर्विरुध्यते॥ सुश्रुतेऽप्युक्तम् -'तत् सौकुमा-च्च तथैव शैत्याद्' इत्यादि । अल्पस्य मधुनो हितत्वे हेतुमाह-गुवित्यादि। गुरुत्वात् मध्वामकारकं भवति, रूक्षं कषायं शैत्यन्तु महान्ययं चातकरमिति भावः ।
For Private and Personal Use Only