________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ अध्याया) सूत्रस्थानम् ।
१०७३ वृष्या क्षीणक्षतहिता सस्नेहा गुड़शर्करा। कषायमधुरा शीता सतिक्ता यासशर्करा ॥ रुक्षा च्छईतिसारनी च्छेदनी मधुशर्करा।
तृष्णामृपित्तदाहेषु प्रशस्ताः सर्वशर्कराः॥४८॥ मधुरः शुद्धो वातन्नोऽमृक्मसादनः। स पुराणोऽधिकगुणो गुड़ः पथ्यतमः स्मृतः॥ (पक्को गुरुः सरः स्निग्धः स तीक्ष्णः कफवातनुत्, फाणितं गुरु मधुरमभिष्यन्दि हणमप्यं त्रिदोषकृच्च । ) मत्स्यण्डिकाः खण्डशकेरा विमलजाता उत्तरोत्तरं शीताः स्निग्धा गुरुतरा मधुरतरा सृष्या रक्तपित्तप्रसादनाः तृष्णाप्रशमनाश्च। यथा यथैषां वैमल्यं मधुरखं तथा तथा। स्नेहगोरव. शैत्यानि सरत्वञ्च तथा तथा॥ यो यो मत्स्यण्डिकाखण्डशवराणां खको गुणः । तेन तेनैव निद्देश्यस्तेषां विस्रावणो गुणः। सारस्थिता सुविमला निक्षारा च यथा यथा। तथा तथा गुणवती विज्ञ या शकरा बुधैः॥ इति । अस्याः शकराया गुणमाह-वृष्येत्यादि। गुड़शर्करा खण्डान्निम्मेला शकरा यथा यथा निर्मला तथा तथैव शैत्यादियुक्ता वृप्यादिगुणा भवति । खण्डगुणथान्यत्रोक्तः, खण्डो वृष्यतमो बल्यश्चक्षुष्यो हणस्तथा। शकरामसङ्गादपरशर्करामाह-कषायेत्यादि। यासशकरा दुरालभारसकृतशर्करा। सश्रते च-यवासशकरा मधुरकपाया तिक्तानुरसा श्लेष्महरी सरा चेति । रुक्षेत्यादि । मधुशकरा काले स्वत एव मधुनः शकरा भवति, सा रुक्षादिगुणा। सश्रते च-मधुशकरा पुनश्छद्दतीसारहरी रुक्षा च्छेदनी प्रहादनी कपायमधुरा मधुरविपाका च। इति। सर्वासां शकराणामासां सामान्यतो गुणानाहतृष्णामृगित्यादि । सव्वंशकरा गुड़शकेरा यास शकेरा मधुशकरा चेति । सश्रते च-यावत्यः शकराः प्रोक्ताः सव्वा दाहमणाशनाः। रक्तपित्तप्रशमनाश्छदि. मूर्छातृषापहाः। रुक्षं मधूकपुप्पोत्थं फाणितं वातपित्तकृत् । कफघ्नं मधुरं पाके कषायं वस्तिदूषणम् ॥ इति ॥४५॥४८॥
मध्ये पाकाद घनीभूता मत्स्याण्डनिभा भवति ; विमलाः परमित्युत्तरोत्तरं विमलाः ; भवेच्छैत्य तथा तथेति मत्स्यण्डिकायाश्च खण्ड: शीततरः, ततश्च शर्करा शीततमेत्यर्थः ।
गुड़शर्करेति यासमधुशर्करयोग्यवच्छेदार्थम् ; यासशकरा दुरालभावाथकृता शर्करा; मधशर्करा तु मधुमण्डेषु शर्करा भवति ॥ ४॥४८॥
For Private and Personal Use Only