________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'अन्नपानविधिः
१०७२
चरक-संहिता। प्रभूतक्रिमिमज्जास्मृङ्-मेदोमांसकरो गुड़ः । क्षुद्रो गुड़श्चतुर्भागत्रिभागा वशेषितः । रसो गुरुर्यथा पूर्व धौतस्वल्पमलो गुड़ः ॥४७॥ ततो मत्स्यण्डिका खण्डः शर्करा विमला परम् । यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा ॥
क्षयापहः। अतीव मधुरो मूले मध्ये मधुर एव च। अग्रप्वक्षिषु विशे य इथूणां लवणो रसः । अविदाही कफकरो वातपित्तनिवारणः । वक्त महादनो वृष्यो दन्तनिष्पीड़ितो रसः। गुरुर्विदाही विष्ठम्भी यान्त्रिकस्तु प्रकीर्तितः। इति ॥ ४६॥
गङ्गाधरः- इक्षुरसविकारानाह-प्रभूतेत्यादि। गुड़ इति प्रसिद्धः। प्रभूतक्रिम्यादिकरः। पाकादतिसान्द्रसमापन्न इक्षुरसो गुड़ः। स च त्रिविधः चतुर्थभागावशेषित इक्षुरसस्तु गुड़ उच्यते। त्रिभागावशेषित इक्षुरसः क्षुद्र उच्यते। अविशेपित इक्षुरसस्वगुड़ः फाणितमित्युच्यते। तेषु यथापूर्व पूर्वः पूच्चो गुरुः । तत्राल्पमलः पाककालेऽथवोत्तरकाले मलापहरणेन यो गुड़ोऽल्पमलः स्यात् स धौत इत्युच्यते। ततो धौताद्विमला मत्स्यण्डिका नानाभिधीयते । ततः पुनर्मतस्यण्डिकातो विमलः खण्ड उच्यते । खण्डाद्विमला शकेरा नामाभिधीयते। परं यथा यथा चैषां वमल्यं भवेत तथा तथा शैत्यं शीतगुणवमेषां भवेत् । सुश्रुते च-गुड़ः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदःक्रिमिकफकरो बल्यो वृष्यश्च । पित्तन्नो दन्तनिष्पीडितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भविष्यति ; किंवा, यान्त्रिकोऽपि विदाहकारकत्वादिसंयोगस्य तथा कालान्तरावस्थानस्य च त्यागं कृत्वोपयोगः कर्तव्यः ; “यात्रिकस्तु विदह्यते" इतिवचनं प्रायोवादमाश्रित्य बोद्रव्यम् ; अन्ये तद्दोपभयाद विदह्यत इति शीघ्रं पच्यत इति व्याख्यानयन्ति ॥ ४६ ।।
चक्रपाणिः--प्रभूतक्रिम्यादिकारणत्वात् प्रभूतक्रिग्यादिकरो गुड़ उच्यते। क्षुद्रगुडस्तथा चतुर्भागविभागाविशेपितः ; रस इत्यत्र चकारलोपो द्रष्टव्यः, तेन, क्षुद्रगुडश्चतुर्भागावशेषिताद्रसाद गुरुस्तथा त्रिभागाच्चतुर्भागावशेपितो गुरुरित्यादि ज्ञेयम् । अत्र क्षुद्रगुडोऽसितगुड़ इत्युच्यते ; फाणितञ्च तन्तुलीभावाद् भवति । धौतः स्वरूपमल इति मलावशेषेण धौतेऽस्पमलो भवति, तेनाल्पक्रिम्यादि भत्तीति भावः। तंत इति धौतगुड़ात् ; मत्स्यष्टिका खण्टु.
For Private and Personal Use Only