________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः सूत्रस्थानम्।
१०७१ वष्यः शीतः सरः स्निग्धो वृहणो मधुरो रसः। श्लेष्मलो भक्षितेसाक्षोर्यान्त्रिकस्तु विदह्यते ।
शैत्यात् प्रसादान्माधुर्य्यात् पौण्डूकाद. वंशको वरः ॥४६॥ दिशेत् ॥ इति । वर्ग समापयति-गोरसानामित्यादि। गोरसानामिति प्राधान्यादुपलक्षणाद् गवादिरसानामयं नवमो वर्गः परिकीर्तितः॥४५॥
इति नवमो गोरसवर्गः।९। गङ्गाधरः- क्रमिकवादिक्षुविकारकवर्गमाह । तत्र श्रेष्ठखाचवितस्येक्षो रसगुणमाह-वृष्य इत्यादि। भक्षितम्य दन्तचर्चितस्य पौण्डकादिजातिविशेषण परिगृहीतस्य सामान्यस्येक्षो रसो दृष्यादिगुणः। यान्त्रिकस्तु खलुइक्षोयेन्त्रनिष्पीड़ितो रसो विदह्यते। सुश्रुते च-इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या कृप्या मूत्रला रक्तपित्तप्रशमनाः क्रिमिकफकराश्चेति । ते चानेकविधाः। तद् यथा-पौण्डको भीरुकश्चैव वंशकः शतपोरकः। कान्तारस्तापसेक्षुश्च काप्ठे क्षुः मूचिपत्रकः । नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् । इत्येता जातयः स्थौल्यात् गुणान वक्ष्याम्यतः परम् ॥ सुशीतो मधुरः स्निग्धो हणः श्लेष्मलः सरः। अविदाही गुरु ष्यः पौण्डको भीरुकस्तथा। आभ्यां तुल्यगुणः किश्चित् सक्षारो वंशको मतः । वंशवच्छतपोरस्तु किश्चिनः स वातहा। कान्तारतापसाविक्ष वंशकानुगुणो मतो। एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः। मृचीपत्रो नीलपोरो नेपालो दीघेपत्रकः। वातलाः कफपित्तघ्नाः सकपाया विदाहिनः। कोशकारो गुरुः शीतो रक्तपित्ततफपिण्डगुणः, तक्रपिण्डस्तक्रकूर्चिकाया एव सुतद्रवो घनो भागः। गोरसानामिस्यत्र 'आदि'शब्दो लुप्तनिर्दिष्टो द्रव्य:, तेन, महिषीक्षीरादीनामपि ग्रहणम्, किंवा, प्राधान्यात् गोरसनिर्देशाद् गोरसतया गोरसनिष्पन्नाः सर्च एव क्षीरदधितक्रादयो गृह्यन्ते, लोके हि सर्वेष्वेवैषु गोरससंज्ञा माधुर्य्यसामान्यात् ॥ ४५ ॥
इति गोरसवर्गः।९।। चक्रपाणिः-इक्षुविकृतिप्रायो वर्ग उच्यते ;--भक्षितस्येति दन्तपीड़ितस्य ; यान्त्रिक इति यन्त्रपीड़ितः, विदाहश्चास्य प्रायशस्त्वग्ग्रन्थियुक्तस्य यन्त्रेण पीड़नात्, तथा. कालान्तरमवस्थानाच्च, वचनं हि-"त्वगग्रन्थिसंयोगात् यान्त्रिकस्तु विदह्यते” उक्तञ्च हारीते-"व्यापित्वात् सुकुमारो हि रसो यन्त्रनिपीड़ितः। सौक्ष्मात् स्पृशोऽनिलार्काभ्यां भृशं काये विदह्यते ॥" तत्र व्यापित्वादिति स्वगादियुक्त क्षुकाण्डभवत्वाद्, यदुच्यते-विदाहित्वे यान्त्रिकस्य रक्तपित्तहन्तृत्वमुक्त विरुध्यते, यथा---'मधूदकस्येचुरसस्व चैव पानाच्छमं गच्छति रमपित्तम् ।" तन्न, यतः,
For Private and Personal Use Only