________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः
सूत्रस्थानम् ।
१०६७ शोफार्थीग्रहणीदोष-मूत्रग्रहोदरारुचौ। • स्नेहव्यापदि पाण्डुत्वे तक दद्याद गरेषु च ॥ ४२ ॥ संपाहि दीपनं हृद्य नवनीतं नवोद्धृतम् ।
ग्रहण्यशोविकारधनमदितारुचिनाशनम् ॥ मधुरमष्यं कफवातनुत् ॥ प्रहादनं प्रीणनश्च भिनत्याशु मलश्च तत् । वलमावहते चापि भक्तच्छन्दं करोति च ॥ इति ॥४१॥
गङ्गाधरः-शोफेत्यादि। अथ दधिभवत्वेन तक्रं गुणकर्मभ्यामाह ! शोफादिप तक्रं दद्यात् तत्तद्धरखमेतेनापद्यते तक्रस्येति। सश्रते च--तकं मधुरमम्लं कषायानुरसमुष्णवीय्ये लघु रुक्षपग्निदीपनं गरशोफातिसारग्रहणी. पाण्डुरोगार्शः प्लीहगुल्मोदरारोचक-विषमज्वर-तृष्णाच्छदिप्रसेक-शूलगेदःश्रेष्मा. निलहरं मधुरविपाकं हृदा मूत्रकृच्छस्नेहव्यापत्तशमनमदृष्यश्च ! मन्थनादिपृथगभूत-स्नेहमद्धोदकन्तु यत्। नातिसान्द्रद्रवं तकं साद्वम्लं तुवरं रसे॥ यत तु सस्नेहमजलं मथितं घोलमुच्यते । इति। अन्यत्र तु-ससारं निजलं घोलं तकं पादजलान्वितम्। अझैदकमुदश्चित् स्यान्मथितं सारखज्जितम् । घोलं पित्तानिलहरं तक्रं दोपत्रयापहम्। उदश्विन श्लेष्मलञ्चैव मथितं कफपित्तनुस्। इति। वक्ष्यते चात्र चिकित्सिते। रुक्षमद्धोद्ध तस्नेहं यत थानुद्धतं धनम्। तर्क दोषाग्निबलवित् त्रिविधं सम्प्रयोजयेत् । इति । त्रिविध ससारक्षीरजातदधिमन्यनजं कटुकमुच्यते। असारदुग्धजातदधिमन्थन तक्रं नैवंगुणमुच्यते। सुश्र्ते तु द्विविधमन्यथा चोक्तम्। तत् तु पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनश्च, अम्लं वातघ्नं पित्तकरश्च। वातेऽम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम् । पिवेत् तक्र कफे चापि व्योषक्षारममायुतम् ॥ तक्रं नैव क्षते दद्यान्नोष्णकाले न दुब्बेले । न मूर्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥ इति ॥४२॥ __ गङ्गाधरः-क्षीरविकारतया गोरसखानवनीतमाह-संग्राहीत्यादि। नवोद्धतं मन्थनादुत्थितमात्रं नवनीतं सामान्यतो गव्यादि सर्च संग्राहीत्यादिगुणम् । सर इति च्छेदः ; सरो दध्युपरिस्नेहः, शुक्रलः शुक्रसुतिवृद्धिकरः, अत एव सुश्रुते सरगुणे-“वृष्यः शुक्रविवर्द्धनः" इति पदद्वयोपादानं कृतम् । मण्ड इति प्रकरणाद दधिमण्डो मस्वित्यर्थः ॥ ४॥
चक्रपाणिः-शोफेत्यादि तक्रगुणः, मूत्रग्रहो मूत्रकृच्छाणि, गरोऽकृत्रिमविषम्। संग्राहीत्यादि
For Private and Personal Use Only