________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६६ चरक-संहिता।
अन्नपानविाधः शरग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् । रक्तपित्तकफोत्थेषु विकारेवहितञ्च तत् ॥ त्रिदोषं मन्दकं जातं वातघ्नं दधि शुक्रलम् ।
सरः श्लेष्मानिलघ्नस्तु मस्तु स्रोतोक्शिोधनम् ॥ ४१ ॥ शरदित्यादि। प्रायश इति गव्यस्य पित्तकरखाभावाच्छरद्ग्रीष्मयोने गहित. खम। वसन्ते तु बाड़वं दधि न गहितं कफहरवादिति। रक्तपित्तकफोत्थेषु विकारेषु तद दधि न हितमिति। ततोऽर्थादापद्यते हिमशिशिरवर्षासु न दधि गहेनत इति। मुश्रुतं च-शरद ग्रीष्मवसन्तेषु प्रायशो दधि गहितम्। हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥ इति। त्रिदोषमित्यादि। मन्दकमल्पजातं दधि त्रिदोषं मिलितत्रिदोषकरमिति । सुश्रुते च-विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् । इति । यदा क्षीरं विक्रिय. माणं न सम्यग्दधिभावं याति तदा मन्दकं जातमुच्यते। यदा तु सम्यग दधिभावं गच्छति क्षीरं स्वरूपमुत्सृज्य मधुरमीपदम्लश्च घनश्च भवति तदा जातमुच्यते। तज्जातं दधि वातन शुक्रलं भवतीति। तस्य सारहीनक्षीरजातस्य दनस्तु गुण उक्तः सुश्रुते---दधि खसारं रुक्षश्च ग्राहि विष्टम्भि वातलंम्। दीपनीयं समधुरं सकपायं रुचिप्रदम् ॥ इति। सर इत्यादि। प्रकरणाद् दन एव सरः श्लेष्मानिलघ्नो न तु क्षीरस्य, तथा दन्न एव मस्तु ततो निःसृतं जलवद द्रवं स्रोतोविशोधनं भवति । उक्तश्च सते-दनः सरो गुरुट प्यो विश योऽनिलनाशनः । वह्न विधमनश्चापि कफशुक्रश्विद्धनः॥ तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम्। अम्लं कपायं करत्वहितत्वादि दधिगुणपालोचनयाऽनुपपद्यमानमिह दृश्यते, तत् प्रभावाद् बोदव्यम् ; यच्च गुणान्तरादेवाम्लत्वोष्णत्वस्निग्धत्वाल्लभ्यमानमपि वातघ्नत्वं पुनरुच्यते, तत् प्रकर्षार्थ, तथा, अग्लत्वादियुक्तस्यापि वातहन्तृतादिव्यभिचारदर्शनादिति बोद्धव्यम् ; व्यभिचारोदाहरणानि च मन्दकमन्दजातमण्डादीन्यनुसतच्यानि ; न्यायश्चायं सन्निपानगुणकथने यथासम्भवं वर्णनीयः ; प्रन्थप्रचुरतरताभीत्या सर्व वस्तु वरां नोद्भावयामः । प्रायश इति वचनात् कालान्तरेऽपि गर्हितत्वं शरदादावपि प्रकृत्यादिवशाद गर्हितत्वं दर्शयति । ___ मन्दकं यदा क्षीरं विक्रियामापन्नं घनत्वं याति, तदा तन्मन्दकम् ; जातं वासप्तमिति यदा तु मन्दकावस्थामुत्सृज्य घनतया जातं सत् मधुरमीषदम्लञ्च भवति, तदा वातन विशेषेण भवतीत्यर्यः ; पूर्वे तु दधिगुणाः सुजातस्य व्यक्ताम्लस्य बोद्धस्याः। शुक्रलः
For Private and Personal Use Only