________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श भध्यायः सूत्रस्थानम्।
१०६५ रोचनं दीपनं वृष्यं स्नेहनं बलवर्द्धनम् ।। पाकेऽम्लमुष्णं वातघ्नं मङ्गल्यं वृंहणं दधि ॥ पीनसे चातिसारे च शीतके विषमज्वरे ।
अरुची मूत्रकृच्छ्रे च कार्ये च दधि शस्यते ॥ गङ्गाधरः-इत्यष्टक्षीरमुक्ता तद्विकारमाह-रोचनमित्यादि। सर्वेषां क्षीराणां सुनातं सर्व दधि रोचनादिगुणम् । सत्यपि रुचिमत्त्वे पुरुषेभ्योऽभ्यवहियमाणं रोचयतीति रोचनमरुचौ च रोगे शस्यते। उष्णवीयवात् स्नेहनखाच्च वातघ्नं तस्मात् पीनसादौ शस्यते । सुश्रुते च-दधि तु मधुरमम्लमत्यम्लञ्चेति । तम् कपायानुरसं स्निग्धमुष्णं पीनस विषमज्वरातिसारारोचकमूत्रकृच्छकार्यापहं वृष्यं प्राणकरं मङ्गल्यश्च। महाभिष्यन्दि मधुरं कफमेदोविवर्द्धनम्। कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ॥ स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् । वातापहं पवित्रश्च दधि गव्यं रुचिप्रदम् ॥ दध्याज रक्तपित्तनं लघु वातक्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनम् ॥ विपाके मधुरं वृष्यं वातपित्तप्रसादनम्। बलासवर्द्धनं स्निग्धं विशेषाद दधि माहिषम् ॥ विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि। वातमांसि कुष्ठानि क्रिपीन् हन्त्युदराणि च॥ कोपनं करूवातानां दुर्नाम्नाश्चाविकं दधि। रसे पाके च मधुरमत्यभिष्यन्दि दोपलम् ॥ दीपनीयमचक्षुष्यं बाड़वं दधि वातलम् । रुक्षमुष्णं कषायश्च ककमूत्रापहश्च तत् ॥ स्निग्यं विपाके मधुरं बल्यं सन्तपेणं गुरु। चक्षुष्यमग्न्यं दोषनं दधि नार्या गुणोत्तरम् ॥ लघु पाके बलासन वीर्योष्णं पक्तिनाशनम् । कषायानुरसं नाग्या दधि वच्चौविवर्द्धनम् ॥ दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् । विशे यमेषु सव्वेषु गव्यमेव गुणोत्तरम्॥ वातघ्नं कफकृत् स्निग्धं हणं न च पित्तकृत् । कुर्याद भक्ताभिलाषश्च दधि यत् सपरिस्र तम्।। शृतात् क्षीरात् तु यजातं गुणवद दधि तत् स्मृतम्। वातपित्तहरं रुच्यं धाबग्निबलवर्द्धनम् ॥ इति ।
चक्रपाणिः-दधिगुणमाह-रोचनमित्यादि। भत्र रोचनमित्युक्तापि “अरुचौ” इति वचनमरुचिहरत्वेन, रोचनता तूपयोगकाल एव वास्तवरुचिकरत्वेनोक्ता । वृहणमिति रोगादिकृशस्य वृहणम्, कार्ये चेति सहजकार्ये शस्यते इति बोद्धव्यम्, तेन न पौनरुक्तयम्। पीनसे चतुर्विधेऽपि प्रभावाद्वितम्, किंवा, पीनसपाचकत्वात् सर्वत्र हितम् ; यच्च-वृष्यशीत
For Private and Personal Use Only