________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६४
चरक-संहिता। [ भन्नपानविधिः हिकाश्वासकरन्नूष्णं पित्तश्लेष्मलमाविकम् । हस्तिनीनां पयो बल्यं गुरु स्थैर्यकरं परम् ॥ जीवनं वहणं सात्म्यं स्नेहनं मानुषं पयः। नावनं रक्तपित्ते च तर्पणञ्चानिलिनाम् ॥ ४०॥
सव्वव्याधिहरं पयः ॥ इति । हिक्केत्यादि। आविकं मेषीदुग्धम्। सुश्रुते च-आविकं मधुरं स्निग्धं गुरु पित्तकफावहम्। पथ्यं केवलवातेषु कासे चानिलसम्भवे। इति। हस्तिनीनामित्यादि। हस्तिनीनां पयो बल्यादिगुणम् । सुश्रुते च-हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु । स्निग्धं स्थैर्यकर शीतं चक्षुष्यं बलवर्द्धनम् ॥ इति । जीवनमित्यादि । मानुषं पयो जीवनादिगुणं रक्तपित्ते नावनं नस्यम् । अक्षिशूलिनां नेत्रे तर्पणम् । सश्रुते-ना-स्तु मधुरं स्तन्यं कषायानुरसं हिमम्। नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ॥ इति । इत्यष्ट क्षीराण्युत्तवा कालविशेषे गृहीतानां तेषां गुणानाह, सुश्रुते-प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् । रात्रौ सोमगुणखाच व्यायामाभावत स्तथा। दिवाकराभितप्तानां व्यायामानिलसेवनात् । वातानुलोमि श्रान्तिघ्न चक्षुष्यश्चापराह्निकम् । पयोऽभिष्यन्दि गुमि प्रायशः परिकीर्तितम्। तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् । वज्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम्। धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा। तदेवातिशृतं सच गुरु हण. मुच्यते। अनिष्टगन्धमम्लञ्च विवर्ण विरसञ्च यत्। वजन सलवणं क्षीरं यच्च विग्रथितं भवेत् । इति । अन्यत्र च। गवां प्रत्यूषसि क्षीरं गुरु विष्टम्भि दुर्जरम् । तस्मादभ्युदिते मूर्ये यामं यामा मेव वा। समुत्तीर्य पयो ग्राहय तत् पथ्यं दीपनं लघु। विवत्साबालवत्सानां पयो दोषलमीरितम् । शस्तं वत्सकवर्णाया धवलीकृष्णयोरपि । इक्ष्वादा मापपर्णादा ऊर्द्धशृङ्गी च या भवेत् । तासां गवां हितं क्षीरं शृतं वाऽशृतमेव वा। क्षीरं पय्यु पितं सवें गुरु विष्टम्भि दुज्जरम् । प्रायोऽभिष्यन्दि गुमि शृतोष्णं कफवातजित् । शृतशीतश्च पित्तन धारोष्णममृतं पयः। इति ॥४०॥
व्याख्येयम्। यद्यपि च हस्तिक्षीरादीनि शास्त्रे प्रयोगेषु नोक्तानि तथापि कथितगुणं बुद्धा तत्र तन्त्र प्रयोज्यानि ॥ ४० ॥
For Private and Personal Use Only