________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काभण्यायः
१०६३
सूत्रस्थानम् । रुक्षोष्णं क्षीरमुष्ट्रीणामीषत् सलवणं लघु । शस्तं वातकफानाह-क्रिमिशाफोदरार्शसाम् ॥ बल्यं स्थैर्यकां सर्वमुष्णमैकशकं पयः । साम्लं सलवणं रुक्षं शाखावातहरं लघु ॥ छागं कषायमधुरं शीतं ग्राहि पयो लघु । रक्तपित्तातिसारघ्नं नयकासज्वरापहम् ॥
अत्यग्निभ्यश्च हितं तत् । सुश्रुते च-प्रहाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् । निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु ॥ इति । रुक्षोष्णमित्यादि। उष्ट्रीणां क्षीरं रुक्षोष्णमीषत्सलवणं मधुरं लघु च। वातकफादीनां शस्तम्। मुश्रुते च-रुक्षोष्णं लवणं किश्चिदौष्ट्र स्वादुरसं लघु। शोफगुल्मोदराशीन क्रिमिकुष्ठविषापहम् ॥ इति। बल्यमित्यादि । ऐकशफमेकशफानामश्वादीनामेकखुराणां सर्वासां पय इति सर्व मिति विशेषणेन ख्यापितम् । यद्यप्युद्देशे बड़वाया इत्युक्तं तथापि च सामान्याद गुणवचने अधिकखदोषो न भवतीति । उष्णमिति गव्यादिक्षीरापेक्षया। साम्लं सलवणं मधुरमेव सामान्यवचनात् । रुक्षश्च गव्यादिक्षीरापेक्षया न तु निःस्नेहम्। शाखावातहरं रक्तादिधातुगतवातहरं, लघु गव्याद्यपेक्षया। इति। सुश्रुते-उष्णेञ्चैकशर्फ बल्यं शाखावातहर पयः। मधुराम्लरसं रुक्षं लवणानुरसं लघु ॥ इति । छागमित्यादि। छागं पयः कषायमधुरादिगुणम् । सुश्रुते च-गव्यतुल्यगुणन्वाज विशेषाच्छोषिणां हितम्। दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् । अजानामल्पकायखात् कटुतिक्तनिषेवणात्। नात्यम्बुपानात् व्यायामात्
स्निग्धतरम्" इति, तेन "स्नेहान्यूनम्" इति पाठः ; तेन, स्नेहादधिकमित्यर्थः, किंवा, 'स्नेहान्यूनम्' इति स्नेहपूर्णमित्यर्थः। उष्ट्रीशीरादीनां सलवणत्वादि मधुरानुरसत्वेन बोल्यम्, मधुरस्तु रसः प्रधान एव, दीर्घजीवितीये-"प्रायशो मधुरम्" इत्युक्तम्, न तु सर्वथा मधुरमेव। ऐकशमिति बड़वायाः ; केचित् तु सर्वशब्देन खरवेगसरयोरपि भीरस्यायं गुण इत्यपि वदन्ति ; उष्णमिति भीरान्तरापेक्षया, तेन, सामान्यगुणे शीतस्वमुक्तमविरुद्धं भवति, यतः लघूत्तमान तिक्तरसाद गुरुरपि कटुर्लधुरेवोग्यते मधुरायपेक्षया, एवं शीतसमात् इतरक्षीराणमिति ; बढ़वायाः क्षीरं शीतमेव मूत्राद्यपेक्षया भवति ; एवं सममित्येतदपि
For Private and Personal Use Only