________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६२
चरक-संहिता। [भापानविधिः तदेवंगुणमेवौजः सामान्यादभिवद्धयेत् । प्रवरं जीवनीयानां दीरमुक्तं रसायनम् ॥ महिषीणां गुरुतरं गव्याच्छीततरं पयः ।
स्नेहानानमनिद्राणामत्यग्निभ्यो हितञ्च तत् ॥ स्थापनेषु च। विरेचने स्नेहने च पयः सर्वत्र युज्यते। यथाक्रम क्षीरगुणानेकैकस्य पृथक् पृथक् । अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः॥ इति । ___ तदुद्दिष्टं खल्ववीक्षीरादिकं गुणतः कर्मातश्च पृथक् पृथग वक्तु प्राधान्यात् आदौ गोक्षीरमाह-वाद्वित्यादि। गव्यं पयः स्वादुखादिदशगुणं, कम्मे चास्याह-तदेवमित्यादि। तद् दशगुण गव्य पय एवंगुणश्च खादुखादिदशगुणमोजश्च सामान्याद गुणसाम्यादभिवर्द्धयेत्। जीवनीयानां मध्ये प्रवरं जीवनीयं क्षीरं पूर्वमुक्तं रसायनश्च । इति । सुश्रूते च-गव्यमाज तथा चौष्ट्रमाविकं माहिषश्च यत्। अश्वायाश्चैव नार्याश्च करेणूनाश्च यत् पयः। तत् बनेकौषधिरस-प्रसादं प्राणदं गुरु। मधुरं पिच्छिलं शीतं स्निग्धं शीतं सरं मृदु । सर्वप्राणभृतां तस्मात् सात्मा क्षीरमिहोच्यते । तत्र सर्वमेव क्षीरं प्राणिनाम अप्रतिषिद्धं जातिसात्म्यात् । वातपित्तशोणितमानसविकारेष्वविरुद्धं जीणेज्वर-कासश्वासशोषक्षयगुल्मोन्मादोदरमूर्छा-भ्रममददाहपिपासा-हृद्वस्ति-पाण्डुरोग-ग्रहणीदोषाशः-शृलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भस्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं बाजीकरणं रसायनं मेध्यं सन्धानमास्थापनं वयःस्थापनमायुष्यं जीवनं मुंहणं वमनविरेचनश्च तुल्यगुणवाचौजसो वर्द्धनम इति बालवृद्धक्षतक्षीणानां क्षुद्वावायव्यायामकर्षितानाश्च पथ्यतमम् । गोक्षीरम् अनभिष्यन्दि स्निग्धं गुरु रसायनम् । रक्तपित्तहरं शीतं मधुरं रसपाकयोः । जीवनीयं तथा वात-पित्तघ्नं परमं स्मृतम् ॥ इति। यद्यपीह सचदुग्धकम्मे ओजसो वर्द्धनमुक्तम्, अत एव गव्यस्यापि तद्वचनं न विरुद्धमिति माहिषादिप्वप्यनुक्तमपि वक्तव्यमिति । महिषीणामिति। महिषीणां पयो गव्यात् पयसः शीततरं गुरुतरश्च स्नेहान्यूनश्च तथा नष्टनिद्राणां हितं निद्राकरम् गुथिपटितमपि गुण एवेति शेयम्। एवंगुणमेवेति स्वाद्वादिदशगुणं ; सामान्यादिति सामान्यत्वात्। महिषीक्षीरगुणे स्नेहोनमिति महिषीक्षीरं गन्यमीरात् स्नेहोनं, गौरवशैत्याभ्यान्तु तदधिकमिति केचिद अवते, तन्न, प्रत्यक्षमेव हि महिषीक्षीरादधिकमेव घृतं दृश्यते, तथा, जतू. कर्णेऽप्युक्तम,-"गुरु शीतं स्निग्धतरं माहिषमतिबल्यं बृहणञ्चाग्रयम्" सुश्रुतेऽप्युक्त “गय्यात्
For Private and Personal Use Only