________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| अमपानविधि:
१०६८
चरक-संहिता। अन्नपानविधि: स्मृतिबुद्धाग्निशुक्रौजा-कफमेदोविवद्धनम् । वातपित्तविषोन्माद-शोषालक्ष्मीज्वरापहम् ॥४३॥ सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः । सहस्रवीय्य विधिवद घृतं कम्मसहस्रकृत् ॥
मदापस्मारमूर्छाय-शोषोन्मादगरज्वरान् । अलक्ष्मीदोषापहं प्रभावात् । द्विविधमेतत् किश्चिदल्पान्तरगुणं दध्युत्थं क्षीरोत्थश्च। तदुक्तं सुश्रुते-नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं दृष्यम् अविदाहि क्षयकासश्वासत्रणाशोऽदितापहं गुरु कफमेदोविवर्द्धनं बलकरं हणं शोषन विशेषतो बालानां प्रशस्यते। क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेह माधुय्यंयुक्तम तिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनश्च । इति ॥४३॥
गङ्गाधरः-गोरसखाद घृतमाह । सव्वस्नेहोत्तममित्यादि । घृतं सामान्यत एतद्गव्यादि सर्व सर्वेषु स्थावरजङ्गमेषु स्नेहेत्तमं विधिवत् तत्तद्वप्राधिहरदोषहरौषधिसंस्कृतं सहस्रमसङ्घयवीयं भवत् कम्मसहस्रकृद् भवति । शुद्धन्तु जीणं पुरातनं घृतं मदापस्मारादीन् रोगानपोहति। जीर्ण वक्ष्यते चोन्मादचिकित्सिते-उग्रगन्धं पुराणं स्याद् दशवर्षस्थित घृतम् । लाक्षारससमं शीतं प्रपुराणमतः परम् ॥ इति । संवत्सरातीतमपि जीणमुच्यते। तथा चोक्तं हारीतेन-यथा यथा जरां याति गुणवत् स्यात् तथा तथा। इति। तथा कौम्भं सर्पिः शताब्दिकमिति। सुश्रुते च-घृतन्तु सौम्यं शीतवीर्य मृदु मधुरमल्पाभिष्यन्दि स्नेहनमुदावतोन्मादापस्मारशूलज्वरानाह-वातपित्तप्रशमनम् अग्निदीपनं स्मृतिमतिमेधाकान्तिखरलावण्यसौन्दय्यो जस्तेजोबलकरमायुष्यं नवनीतगुणः ; नवोतं सद्यस्क, नवोद्धृतमिति वचनादभिनवस्यैव नवनीतस्य यथोक्तगुणाः प्रकर्षवन्तो भवन्तोति, पुराणस्य तु नैते बलवन्तो गुणा भवन्तीति ॥ ४२।४३ ॥
चक्रपाणिः-उत्पादक्रमागतस्य घृतस्य गुणमाह-स्मृतीत्यादि।-सहस्रवीर्यमिति भूरिशक्तिकम् । कथं सहस्रवीर्यमित्याह-विधिवदिति, विधिवद् विधियुक्त सदित्यर्थः, विधिश्च नानाकर्मकारिभिर्द्रव्यैः संस्कारः संयोगश्च, अत एवोक्तम् – “नान्यः स्नेहस्तथा कश्चित् संस्कारमनुषर्त्तते", तथा तन्त्रान्तरे “घृतं योगवाहि” इति, तस्मात् सहस्रवीर्य्यतः कर्मसहस्रकृदिति योज्यम् ; यत तु सुश्रुतटीकाकृतः सुश्रुतोक्तघृतगुणेषु त्रिदोषापकर्षणमिति पठन्ति, तत्संस्कारेण
For Private and Personal Use Only