________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अन्नपानविधिः
१०६०
चरक-संहिता। वित्र त्रिदोषं लवणमम्बु यद वारुणालयम् । इत्यम्बुवगः प्रोक्तोऽयमष्टमः सुविनिश्चितः ॥३६ ॥
इत्यम्बुवर्गः । ८ । ] वर्षासु पिबद्वापि नवं जलम् । स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु। इति। विस्रमित्यादि। वारुणालयं सामुद्रं यत् तोयं तद् विस्र त्रिदोषं लवणञ्च न हितमिति । सुश्रुते च-सामुद्रमुदकं विस्र लवणं सर्वदोषकृत् । इति। अत्र जलानां व्यापतसम्पच्चानुक्ताप्युन्नेया। तदयथासुश्रुते-तत्र यच्छवालपङ्कटतृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिमूर्यकिरणानिलैनाभिजुष्टम् गन्धवर्णरसोपसृष्टञ्च तद्वद्यापन्नमिति विद्यात् । तस्य स्पर्शरूपरसगन्धवीय्यविपाकदोषाः षट् संभवन्ति। तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषाः। पकसिकताशैवलबहुवर्णता रूपदोषाः । व्यक्तरसता रसदोषः। अनिष्टगन्धता गन्धदोषः। यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्य्यदोषः। यदुपयुक्तं चिराद्विपच्यते विष्टभ्नाति वा स विपाकदोषः। इति। त एते आन्तरीक्षे न सन्ति । व्यापन्नानामग्निकथनं मूर्यातपतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनश्च कर्तव्यम् । नागचम्पकोत्पलपाटलापुप्पप्रभृतिभिश्चाधिवासनमिति। तत्र सप्त कलुषस्य प्रसादनानि भवन्ति । तद् यथा--कतकगोमेदकविसग्रन्थिशवालमूलवस्त्राणि मुक्तामणिश्चेति। पञ्च निक्षेपणानि भवन्ति। तद यथाफलकं त्राष्टकं मुञ्जवलय उदकमश्चिका शिक्यञ्चेति । सप्त शीतीकरणानि भवन्ति । प्रवातस्थापनमुदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं बालुकाप्रक्षेपणं शिक्यावलम्बनञ्चेति। सौवणे राजते ताम्र कांस्ये मणिमये तथा। पुष्पावतंसे भौमे वा मुगन्धि सलिलं पिवेत्। व्यापन्नं वज्जयेन्नित्यं तोयं यद वाप्यनात्तेवम् । दोषसञ्जननं हेप्रतन्नाददीताहितन्तु तत् । व्यापन्नं सलिलं यस्तु पिबतीहाप्रसाधितम्। श्वयथु पाण्डुरोगश्च खग्दोषमविपाकताम । श्वासकासप्रतिश्याय-शूलगुल्मोदराणि च। अन्यान् वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव च। दिवाककिरणैजुष्टं निशायामिन्दुरश्मिभिः। अरुक्षमनभिष्यन्दि तत् तुल्यं गगनाम्बुना। गगनाम्बु त्रिदोषघ्नं गृहीतं यत् क्लिन्नं पर्णादिभियुतं सदित्यर्थः, वरुणालये समुद्रे, विसमामगन्धि। सुनिश्चित इति सर्वजलगुणकथनात् ॥ ३८॥३९॥
इत्यम्बुवर्गः।८।।
For Private and Personal Use Only