________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५८ चरक-संहिता।
भिनपानविधिः बहुधा 8 कीटसर्पाखु-मलसंदूषितोदकाः । वर्षाजलवहा नद्यः सर्वदोषसमीरणाः ॥ ३८ ॥ वापीकूपतड़ागोत्स-सरःप्रस्रवणादिषु।
आनूपधन्वशैलानां गुणदोषविभावयेत् ॥ पारिपात्रभवा न पूर्वसमुद्रगास्ताः पथ्या बलारोग्यकार्य इत्युक्तं सश्रुतेविन्ध्यभवाश्च सर्वा नद्यः कुष्ठं पाण्डुरोगश्च जनयन्ति, सह्यभवास्तु कुष्ठं जनयन्ति, महेन्द्रप्रभाः श्लीपदोदराणि जनयन्तीति प्रायिकखाभिप्रायेण सुश्रुतेनोक्तम् । बहुधेत्यादि। बहुधा कीटादिदूषितोदका नद्यस्तथा वर्षाकाले जलवहा नद्यः सर्वदोषसमीरणाः ॥३८॥
गङ्गाधरः-वापीत्यादि। वापी दीर्घिका पुष्करिणी च । कूपः प्रसिद्धः । तड़ागस्तटादागच्छति पर्वतव्यतिरिक्ततटादिस्थलप्रभवः सबों जलाशयः। स पुनरुच्चदेशात् पतज्जलवेगेन जातः। सरो देवखातम् । प्रस्रवणं निझर। आदिपदेन उद्भिदचुण्ड विकिरकेदारनदीनदादीनां यज्जलम् । तथानूपधन्वदेशचन्द्रकान्तादिमणिशैलानां जलाशयेषु यज्जलं तद्गुणदोषैस्तत्तद्देशस्य गुणदोषैविभावयेत्। सुश्रुते चोक्तम्-वातश्लेष्महरं वाप्यं सक्षारं कटु “पारिपात्रभवाः पथ्याः” इति ; तदुक्तम् विश्वामित्रेण-तड़ागज दरीजच तड़ागाद् यत् सरिजलम् । बलारोग्यकरं तत् स्याद् दरीज दोषलं मतम्" ॥ प्रायोग्रहणात् "पूर्वसमुद्रगाः” इति, पूर्वसमुद्रगमनेऽपि गाङ्गं पथ्यं भवति, किंवा, यथोक्तलक्षणहिमालयभवत्वादेव गाङ्गं पथ्यम् ; पारिपात्रादयः पर्वताः स्वनामप्रसिद्धाः। वर्षासुजलं वहन्तीति वर्षाजलवहाः, यदुक्तमप्रवाधिकारे"वर्षानादेयमुदकानाम्” इति, तस्येहापथ्यत्वे उपपत्तिवर्णनमिति न पौनरुक्त्यम् । प्रस्रवणादिग्विति जलमिति शेषः, वाप्यादयोऽनूपदेशधन्वदेशहिमालयादिपर्वतादिषु भवन्त्यतश्चानूपादिजलगुणैरेव तद्गुणनिर्देशः कर्तव्यः। पश्चिमाभिमुखनदीजलपूर्वाभिमुखनदीजलानूपजलखधन्द. जलपर्वतजलगुणाश्चोक्ता एव, तेन, तद गुणातिदेशो वाप्यादिषु बोद्धच्यः , उत्तञ्च हारीतेन-आपदेशे यद् वारि गुरु तत् इलेष्मवर्द्धनम्। विपरीतमतो मुख्यं जागलं लघु चोच्यते ॥" सुश्रुतेऽपि वाप्यादीनां पृथगेवोक्ता गुणाः । स चेह कूपादीनां संस्कारादिः प्रत्यक्षरो अन्धविस्तरभयानोक्त एवेति मन्तव्यम्। वापी इरकादिबद्धतीर्था दीर्घिका, कूपः प्रसिद्धः, तटात् आगो गतिर्यस्य स तड़ागः, स पुनरुञ्चदेशादागच्छजलबन्धनाद भवति, भन्ये तु पुष्करिणी सड़ागम भाहुः ; उत्सा निम्नानुत्तिष्टज्जलस्थानम् ; सरो दिन्ट खातं पुरुषव्यापार विना, तत् पुनः पम्पादि;
• बहुधेत्यत्र वसुधेति चक्रोक्तः पाठः ।
For Private and Personal Use Only