________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५४
चरक-संहिता। ( अन्नपानविधिः श्वेते कषायं भवति पाण्डुरे खात् तु तिक्तकम् । कपिले क्षारसंस्पृष्टमूषरे लवणान्वितम् ॥ कटु पव्वेतवित्रावे * मधुरं कृष्णभृत्तिके । एतत् षाड़ गुण्यमाख्यातं महीस्थस्य जलस्य तु।
तथाव्यक्तरसं विद्यादैन्द्र कारं हिमञ्च यत् ॥ ३५ ॥ यदन्तरीक्षात् पततीन्द्रसृष्टञ्चोक्तश्च पात्रः परिगृह्यतेऽम्भः । तदैन्द्रमित्येव वदन्ति धीरा नरेन्द्रपेयं सलिलप्रधानम् ॥ ३६ ॥
तद् यथा। अत्र केचित् पठन्ति। श्वेत इत्यादि। श्वेते भूमिदेशे पतितं तज्जलं कषायं भवति, पाण्डुरे भूमिदेशे भ्रष्ट तिक्तकं भवति, कपिले भूमिदेश भ्रष्ट क्षारसंसृष्ट भवति, ऊपरे भूमिदेशे भ्रष्ट लवणान्वितं भवति । पर्वतविस्रावे भूमिदेशे पतितं कटु भवति, कृष्णमृत्तिके देशे पतितं मधुरं भवति । इत्येतत् षाडू गुप्यं महीस्थस्य जलस्य व्याख्यातम् । तत्रैन्द्रं जल यद्देवो वर्षति, यत् कारं करकासम्भवं जलं, हिमञ्च यद् द्विविधं हेमं हिमानीसम्भवं, तोषारं तुषारसम्भवं तत्सर्वमव्यक्तरसं विद्यात् । तत्रैन्द्र जलमाह-यदन्तरीक्षादित्यादि। इन्द्रसृष्टं यजलमन्तरीक्षात् पतति तदम्भ ऐन्द्रमित्येवं धीरा वदन्ति। तच्चोक्तः पात्रः परिगृह्यते तत् सलिलप्रधानं नरेन्द्रपेयमिति । अपरे चैतत् श्वेत इत्यादिकं न पठन्ति । न हि तत् सम्यगिति। सुश्र ते चपानीयमान्तरीक्षमनिद्देश्यरसममृतं जीवनं तपेणं धारणमाश्वासजननं श्रमघ्नं क्लमपिपासामदमूर्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमञ्च। तदेवावनीपतितमन्यतमं रसमुपलभते। स्थानविशेषानदीनदसरस्तड़ागवापीकूपचण्डीप्रस्रवणोद्भिद्विकिरकेदारपल्बलादिषु स्थानेष्ववस्थितमिति। तत्र लोहितकपिलपाण्डुपीतनीलशुक्ल प्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासंख्यमुदकानि सम्भवन्तीत्येके भाषन्ते। तत् तु न सम्यक् । तत्र पृथि. व्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कापकण । तत्र स्वगुणभूयिष्ठायां भूमावम्लं लवणञ्च, अम्बुगुणभूयिष्ठायां मधुरं, तेजोगुणपात्रविशेषसम्बन्धमपेक्ष्य गुणविशेषवद भवति, एतच्च, यद्यपि 'देशकालावपेक्षते' इत्यनेन पूर्वम्
* विस्रावे इत्यत्र विस्तारे इति क्वचित् पाठः ।
For Private and Personal Use Only