________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः ]
सूत्रस्थानम् ।
ईषत्कषायमधुरं सुसूक्ष्मविशदं लघु ॥ अरुक्षमनभिव्यन्दि सव्वं पानीयमुत्तमम् । गुर्व्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम् ॥ तनु लघ्वनभिव्यन्दि प्रायः शरदि वर्षति 1 तत् तु ये सुकुमाराः सुराः स्निग्धभूयिष्ठभोजनाः । तेषां भच्ये च भोज्ये च लेह्यं पेये च शस्यते ॥
१०५५
भूयिष्ठायां कटुकं तिक्तञ्च वायुगुणभूयिष्ठायां कषायञ्च, आकाशगुणभूयिष्ठायामव्यक्तरसम्, अव्यक्तं ह्याकाशमित्यतस्तत्प्रधानमव्यक्तरसत्वात् तत्पेय मान्तरीक्षालाभे । तत्रान्तरीक्षं चतुविधं तद्यथा-धारं कारं तौपारं हैमनमिति तेषां धारं प्रधानं लघुलात् । तत् पुनर्द्वा विधं गाङ्गं सामुद्रञ्चेति । तत्र गाङ्गमाश्वयुजे मासि प्रायो वपति । तयोद्वयोरपि परीक्षणं कुर्व्वीत । शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे वहिष्कुर्व्वीत, स यदि मुहूर्त्त स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यम्, वर्णान्यत्वे सिक्थ
For Private and Personal Use Only
दे च सामुद्रमिति विद्यात्, तन्नोपादेयम् । सामुद्रमध्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति । गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि शुचिशुक्लविततपटैकदेशच्युतमथवा हम्म्ये तलपरिभ्रष्टमन्यैर्वाशुचिभिर्भाजने गृहीतं सौवर्ण राजते मृन्मये वा पात्रे निदध्यात् तत् सर्व्वकालमुपयुञ्जीत तस्यालाभे भौमं, तच्चाकाशगुणबहुलं तत् पुनः सप्तविधं तद्यथा - कोपं नादेयं सारसं ताड़ागं प्रस्रवणमोद्भिदं चौण्ड्यमिति । तत्र वर्षास्वान्तरीक्षमोद्भिदं वा सेवेत महागुणलात् शरदि सर्व्वं प्रसन्नत्वात्, हेमन्ते सारसं ताड़ागं वा, वसन्ते कौ प्रास्रवणं वा ग्रीष्मेष्वेवं, प्रावृषि चौण्डामनवमनभिवृष्टं संस्कृतं वा सव्र्व्वञ्चेति || ३५/३६ ॥
गङ्गाधरः- अथोत्तम जलमाह ईषदित्यादि । ईपत्कपायमधुरादिकं सर्व्व भोमैन्द्रश्च पानीयमुत्तमं भवति । सुसूक्ष्मं सुतनुकम् । गुव्वित्यादि । वार्षिकं वर्षाकाले स पानीयमभिप्यन्दि च गुरु च । शरदि तु प्रायस्तनु लध्वनभिध्यन्दि पानीयं वर्षति । तत् तु शरदि दृष्टं पानीयं ये सकुमारादयस्तेषां एवोक्तम्, तथापि कालापेक्षा देशविशेषस्य प्रकर्षेण गुणविशेषे हेतुताप्रदर्शनार्थे पुनरुक्तम् । केचित्तु " श्वेते कषायं भवति" इत्यादिग्रन्थं पठन्ति, स तु नातिप्रसिद्धः ॥ ३५-३७ ॥