________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७श अध्यायः ]
सूत्रस्थानम् ।
खात् पतत् सोमवाय्वकैः स्पृष्टं कालानुवर्त्तिभिः । शीतोष्ण स्निग्धरुतादेर्यथासन्नं महीगुणैः ॥ शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम् । प्रकृत्या दिव्यमुदकं भ्रष्टं पात्रमपेक्षते ॥
Acharya Shri Kailassagarsuri Gyanmandir
;
देशकालापेक्षते । तत्र पतत् तु यथा - खादित्यादि । दिव्यं द्यलोकीयम उदकं प्रकृत्या शीतादिषड्गुणं खात् सोममण्डलात् पतदेव तत्रैवान्तरीक्षे सोमवाय्वकैः कालानुवर्त्तिभिः शीताद्यतु दिनरात्रानुवत्तिभिः, गुणविशेषं दधद्भिः स्पृष्टं सद् भ्रष्ट' यथासन्नं पात्रं यत्र देशे पतितं स्यात् तद्देशं भूमिगुणैः शीतोष्णस्निग्धरुक्षायैरपेक्षते । जलन्तु खलु शीतं शुचि मृष्टं शुद्धं विमलं लघु च इति षड्गुणं स्वभावात् । ततः खात् पतनकाले यथाकालानुवत्ति - सोमवाय्वक गुणस्पृष्ट ं गुणवैशेष मापद्य भूमौ पतितं तद्भूमिगुणमापद्यते ।
१०५३
भूमिविशेषरूपं देशं कालञ्च तथैवापेक्षते; गुणदोषसम्बन्धे इति शेषः । एनमेव देशकालसम्बन्धमाह - खादित्यादि । सौम्यत्वात् पृथिव्या अपि गगनागतभूलीरूपायास्तथा मेघसहचरितलूतादिविपादिरूपायाश्च ग्रहणं वक्तव्यम्, किंवा वायुग्रहणादेव वायुना नीयमानाया पृथिव्या ग्रहणम् स्पृष्टं भवतीति शेषः । कालानुवर्त्तिभिरिति कालपराधीनैः कालप्रधानैरिति यावत्, एतेन कालकृतसोमादिसम्बन्धविशेषो जले विशेषं करोति, तेन न कालस्याकिञ्चित्करता; पतितजलस्य देशकालसम्बन्धमाह - शीतोष्णेत्यादि । यथासन्नमिति यस्मिन् काले यस्यां मह्यां ये गुणाः शीतादय उद्विक्ता भवन्ति, तैः स्पृष्टं जलं भवति ; एतेन सुश्रुते प्रतिपादितगाङ्गसामुद्रभेदो गुणदोषसम्बन्धमात्रकृत एव दिव्यजलस्येति दर्शयति ; तेन यद् विषादिजुष्टं तत् सामुद्रसमान गुणत्वात् सामुद्रम्, यद, धूल्यादिना विषादिना च रहितं, तत् तद्गुणत्वाद गाङ्गमित्युक्तं सुश्रुते; आश्विने तु मासि दिव्यजलस्य धूलीविषादिसम्बन्धो न भवत्येव, कालमहिम्ना, भवन्नपि वा न जलं तथा दूषयति, अत उक्तं सुश्रुते - “सामुद्रं तन्न पातव्यं मासादाश्वयुजाद् विना इति, अतः हारीतवचनात् कार्त्तिका ग्रहायणयोरप्यान्तरीक्षं जलं ग्राह्यमेव भवति, यदाह - "प्रवृत्तायां शरद्यस्मात् पश्चाद् वाते प्रवात्यपि । हेमन्ते वापि गृह्णीयात् तज्जलं मृन्मयैर्घटैः ॥ इति तेन " आश्वयुजाद विना' इति वचनं आश्वयुजात् प्रभृति जलोपादेयतोषदर्शनार्थम्, न त्वाश्विन एवोपादेयतोपदर्शनपरम् अन्ये त्वाहु: - "आश्विन एव परमान्तरीक्षं ग्राह्यम्” इति ; जतूकर्णवचनन्तु 'वर्षासु चरान्त घनैः सहोरगां वियति च कीटलूताश्च। ताद्वषजुष्ठमपेयं खजलमगस्त्योदयात् पूर्व्वम्” ।
;
दिव्य जलस्य प्राकृतगुणमाह - शीतमित्यादि ।
वदन प्रियत्वेन
For Private and Personal Use Only
शिवमिति कल्याणकरत्वेन, मृष्टमिति वक्ष्यमाण गुणविशेषहेतुमाह - भ्रमित्यादि । पात्रमपेक्षत इति नद्यादि