________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५२
चरक-संहिता। [ भन्नपानविधिः सात्त्विकैर्विधिवद युक्ता पीतं स्यादमृतं यथा। वर्गोऽयं सप्तमो मद्यमधिकृत्य प्रकीर्तितः ॥ ३४ ॥
इति मग्रवर्गः।। जलमेकविधं सव्वं पतत्यैन्द्र नभस्तलात् ।
तत् पतत् पतितञ्चैव देशकालावपेचते॥ मद्यस्य रसवीट्येतः। सौक्ष्मादौष्ण्याच्च तक्ष्ण्याच्च विकाशिखाच्च वह्निना। समेत्य हृदयं प्राप्य धमनीरूद्ध मागतम् । विक्षोभ्येन्द्रियचेतांसि वीयं मदयतेऽचिरात् । चिरेण श्लैष्मिके सि पानतो जायते मदः। अचिराद वातिके दृष्टः पैत्तिके शीघ्रमेव तु । सान्द्रविदाहि दुर्गन्धि विरसं क्रिमिलं गुरु। अहृय तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम्। अल्पौषधं पय्यु पितमत्यच्छं पिच्छिलश्च यत् । तद् वज्यं सवेंदा मद्य किश्चिच्छेषन्तु यद्भवेत् । तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु। कफमकोपि तन्मय दुजेरञ्च विशेषतः। पित्तप्रकोपि बहुलं तीक्ष्णमुष्णं विदाहि च। अहृद्य फेनिलं पूति क्रिमिलं विरसं गुरु । तथा पय्युषितञ्चापि विद्यादनिलकोपनम्। सर्द दोषैरुपेतन्तु सर्व्वदोषप्रकोपणम् । चिरस्थितं जातरसं दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्य सेव्यं मदावहम् । इति। वर्गसमापयति-वगोऽयमित्यादि । मद्यमधिकृत्यारिष्टादीनामपि गुणाश्रय एप सप्तमो वर्गः प्रकीर्तितः॥३४॥
। इति सप्तमो मद्यवर्गः।७। गङ्गाधरः-पानविशेषखादम्बुवग उच्यते-जलमित्यादि। सच जलमेकविधं धारकारकहैमनतोषारभेदेन चतुर्विधमपि ऐन्द्रखसामान्यादेकविध नभस्तलानभस उपरिष्टात् सोममण्डलात् पतति । तदैन्द्र जलं पतत् पतितश्च गोधूमभेदः, तत्कृतं मद्य मधूलकम् ; अन्ये तु मेदकमाहुः। दीपनमित्यादि-सौवीरतुषोदकगुणः ; अग्लकाञ्जिकमिति काजिकमेवाग्ल गुणम् ॥ ३४ ॥ इति मद्यवर्गः।७।)
सम्प्रति पानप्रधानस्य जलाय गुणमाह-जलमित्यादि। सर्वमिति सुश्रुतप्रतिपादित. धारकारहमतोषारमपि, एकविमिति "शिवाः खल्वापः" इत्यादिनोक्तगुणम्, तथा 'शीतं शुचि' इत्यादिवक्ष्यमाणगुणम्, ऐन्द्र मिति प्राप्यमवशेनेन्द्रप्रेरितम् ; एकविधत्वेऽपि तस्य भेदमाह- तत् पतदित्यादि। पतद्देशमाकाशगतभूतरूपं, कालञ्च शीतोष्णादिरूपं, तथा पतितच
For Private and Personal Use Only