________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः
१०५१
सूत्रस्थानम् । दाहज्वरापहं स्पर्शात् पानाद वातकफापहम् । विबन्धनमवस्त्रसि दीपनश्चाम्लकाञ्जिकम् ॥ प्रायशोऽभिनवं मद्य गुरु दोषसमीरणम् । स्रोतसां शोधनं जीणं दीपनं लघु रोचनम् ॥ हर्षणं प्रीणनं वयं भयशोकश्रमापहम्। प्रागल्भ्यवीर्य्यप्रतिभा-तुष्टिपुष्टिबलप्रदम् ॥
दाहेत्यादि। अम्लकाञ्जिकं धान्याम्लं धान्यकृतं भक्तकाञ्जिकच दाहादिहरम् । सुश्रुते च--धान्याम्लं धान्ययोनिखाद् दीपनं दाहनाशनम् । स्पर्शात् पानात् तु पवन-कफतृष्णाहरं लघु। तैक्ष्ण्याच्च निहरेदाशु कर्फ गण्डूषधारणात् ॥ मुखवैरस्यदौर्गन्थ्य-मलशोषक्लमापहम्। दीपनं जरणं भेदि हितमास्थापनेषु च। समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते ॥ इति । इह शुक्तादिगुणा उन्नेयाः। तद् यथा सुश्रुते-रक्तपित्तकरं शुक्तं छेदि भुक्तविपाचनम्। वैस्खय्य जरणं श्लेष्म-पाष्डु क्रिमिहरं लघु॥ तीक्ष्णोष्णं मूत्रलं हृद्य कफघ्नं कटुपाकि च । तद्वत् तदासतं सर्व रोचनश्च विशेषतः॥ गौड़ानि रसशुक्तानि मधुशुक्तानि यानि च। यथापूर्व गुरुतराण्यभिष्यन्दकराणि च॥ इति। __अथेदानी मद्यानां नवखाद्यवस्थायां गुणविशेषमाह-प्रायश इत्यादि। दोषसमीरणं दोषत्रयप्रकोपणम्। सुश्रुते च-नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम्। अनिष्टगन्धं विरसमहृयश्च विदाहि च ॥ जोमद्यगुणमाह-स्रोतसामित्यादि। जीणें पुराणं मद्य स्रोतसां शोधनं स्फुटीकरणमित्यादिगुणम् । सुश्र ते च--सुगन्धि दीपनं हृद्य रोचिष्णु क्रिमिनाशनम् । स्फुटस्रोतस्करं जीर्ण लघुवातकफापहम् ॥ इति । प्रागल्भ्येत्यादि। सात्त्विकर्मानवैयुक्त्या मात्रया विधिवत् सभक्तादिकं पीतं तज्जीणं मद्य प्रागल्भ्यादिप्रदं स्याद् यथा चामृतं तथा स्याच्च। तदुक्तं सुश्रते-सात्त्विके शौचदाक्षिण्य-हर्षमण्डनलालसः । गीताध्ययनसौभाग्य-सुरतोत्साहकृन्मदः। राजसे दुःखशीलखमात्मत्यागं ससाहसम् । कलहं सानुबन्धन्तु करोति पुरुष मदः॥ अशौचनिद्रामात्सर्यागम्यागमनलोलताः। असत्यभाषणश्चापि कुर्याद्धि तामसे मदः॥ तस्यानेकपकारस्य
For Private and Personal Use Only